वांछित मन्त्र चुनें

क्षी॒रे मा॑ म॒न्थे य॑त॒मो द॒दम्भा॑कृष्टप॒च्ये अश॑ने धा॒न्ये॒ यः। तदा॒त्मना॑ प्र॒जया॑ पिशा॒चा वि या॑तयन्तामग॒दो॒यम॑स्तु ॥

मन्त्र उच्चारण
पद पाठ

क्षीरे । मा । मन्थे । यतम: । ददम्भ । अकृष्टऽपच्ये । अशने । धान्ये । य: । तत् । आत्मना । प्रऽजया । पिशाचा: । वि । यातयन्ताम् । अगद: । अयम् ।अस्तु ॥२९.७॥

अथर्ववेद » काण्ड:5» सूक्त:29» पर्यायः:0» मन्त्र:7


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

शत्रुओं और रोगों के नाश का उपदेश।

पदार्थान्वयभाषाः - (यतमः) जिस किसी ने (क्षीरे) दूध में, अथवा (मन्थे) मट्ठे में, अथवा (यः) जिसने (अकृष्टपच्ये) विना जुते खेत से उत्पन्न (अशने) भोजन में, अथवा (धान्ये) यव आदि धान्य में (मा) मुझे (ददम्भ) धोखा दिया है। (तत्) उससे.... म० ६ ॥७॥
भावार्थभाषाः - मन्त्र ६ देखो ॥७॥
टिप्पणी: ७−(क्षीरे) दुग्धे (मा) माम् (मन्थे) पेयभेदे। तक्रे (यतमः) यः कश्चित् (ददम्भ) वञ्चितवान् (अकृष्टपच्ये) राजसूयसूर्य०। पा० ३।१।११४। इति अकृष्ट+पच पाके−क्यप्। कृष्यादिकं विना स्वयं पक्वे नीवारादौ (अशने) भोजने (धान्ये) अ० ३।२६।३। यवाद्यन्ये ॥