आ॒मे सुप॑क्वे श॒बले॒ विप॑क्वे॒ यो मा॑ पिशा॒चो अश॑ने द॒दम्भ॑। तदा॒त्मना॑ प्र॒जया॑ पिशा॒चा वि या॑तयन्तामग॒दोयम॑स्तु ॥
पद पाठ
आमे । सुऽपक्वे । शबले । विऽपक्वे । य: । मा । पिशाच: । अशने । ददम्भ । तत् । आत्मना । प्रऽजया । पिशाचा: । वि । यातयन्ताम् । अगद: । अयम् ।अस्तु ॥२९.६॥
अथर्ववेद » काण्ड:5» सूक्त:29» पर्यायः:0» मन्त्र:6
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
शत्रुओं और रोगों के नाश का उपदेश।
पदार्थान्वयभाषाः - (यः) जिस (पिशाचः) पिशाच समूह ने (आमे) कच्चे, (सुपक्वे) अच्छे पक्के, (शबले) चितकबरे अथवा (विपक्वे) विविध प्रकार पके हुए (अशने) भोजन में (मा) मुझे (ददम्भ) धोखा दिया है। (तत्) उससे (पिशाचाः) वे मांसभक्षक (आत्मना) अपने जीव और (प्रजया) प्रजा के साथ (वि) विविध प्रकार (यातयन्ताम्) पीड़ा पावें, और (अयम्) यह पुरुष (अगदः) नीरोग (अस्तु) होवे ॥६॥
भावार्थभाषाः - भोजन आदि में कुवस्तु मिलानेवाले दुष्टों को दण्ड देकर प्रजा को स्वस्थ रखना चाहिये ॥६॥
टिप्पणी: ६−(आमे) अपक्वे (सुपक्वे) यथाविधि कृतपाके (शबले) शपेर्बश्च। उ० १।१०५। इति शप आक्रोशे−कल, पस्य बः। कर्बुरे (विपक्वे) विविधं पक्वे (यः) (मा) माम् (पिशाचः) मांसभक्षकः (अशने) भोजने (ददम्भ) वञ्चितवान् (तत्) तस्मात् (आत्मना) स्वजीवेन (प्रजया) पुत्रपौत्रादिना सह (पिशाचाः) मांसभक्षकाः (वि) विविधम् (यातयन्ताम्) यत ताडने, चुरादिः। यातनां तीव्रपीडां प्राप्नुवन्तु (अगदः) नीरोगः (अयम्) पुरुषः (अस्तु) भवतु ॥
