तथा॒ तद॑ग्ने कृणु जातवेदो॒ विश्वे॑भिर्दे॒वैः स॒ह सं॑विदा॒नः। यो नो॑ दि॒देव॑ यत॒मो ज॒घास॒ यथा॒ सो अ॒स्य प॑रि॒धिष्पता॑ति ॥
पद पाठ
तथा । तत् । अग्ने । कृणु । जातऽवेद: । विश्वेभि: । देवै: । सह । सम्ऽविदान: । य: । न: । दिदेव । यतम: । जघास । यथा । स: । अस्य । परिऽधि: । पताति ॥२९.२॥
अथर्ववेद » काण्ड:5» सूक्त:29» पर्यायः:0» मन्त्र:2
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
शत्रुओं और रोगों के नाश का उपदेश।
पदार्थान्वयभाषाः - (तत्) सो (जातवेदः) हे विद्या में प्रसिद्ध (अग्ने) विद्वान् पुरुष ! (विश्वेभिः) सब (देवैः सह) उत्तम गुणों के साथ (संविदानः) मिलता हुआ तू (तथा) वैसा (कृणु) कर। (यथा) जिस से (अस्य) उस [शत्रु] का (सः परिधिः) वह परकोटा (पताति) गिर पड़े, (यः) जिस [शत्रु] ने (नः) हमें (दिदेव) सताया है, अथवा (यतमः) जिस किसी ने (जघास) खाया है ॥२॥
भावार्थभाषाः - प्रजा के सतानेवाले शत्रुओं को राजा यथावत् दण्ड देवे ॥२॥
टिप्पणी: २−(तथा) तेन प्रकारेण (तत्) तस्मात् (अग्ने) विद्वन् (कृणु) कुरु (जातवेदः) हे प्रसिद्धविद्य (विश्वेभिः) सर्वैः (देवैः) उत्तमगुणैः (सह) सहितः (संविदानः) संगच्छमानः (यः) शत्रुः (नः) अस्मान् (दिदेव) दिवु मर्दने−लिट्, चुरादिः। ममर्द (यतमः) यः कश्चित् (जघास) भक्षितवान् (यथा) येन प्रकारेण (सः) प्रसिद्धः (अस्य) शत्रोः (परिधिः) अ० ४।९।१। प्राकारः (पताति) लेटि रूपम्। अधो गच्छेत् ॥
