वांछित मन्त्र चुनें

सोम॑स्येव जातवेदो अं॒शुरा प्या॑यताम॒यम्। अग्ने॑ विर॒प्शिनं॒ मेध्य॑मय॒क्ष्मं कृ॑णु॒ जीव॑तु ॥

मन्त्र उच्चारण
पद पाठ

सोमस्यऽइव । जातऽवेद: । अशु: । आ । प्यायताम् । अयम् । अग्ने । विऽरप्शिनम् । मेध्यम् । अयक्ष्मम् । कृणु । जीवतु ॥२९.१३॥

अथर्ववेद » काण्ड:5» सूक्त:29» पर्यायः:0» मन्त्र:13


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

शत्रुओं और रोगों के नाश का उपदेश।

पदार्थान्वयभाषाः - (जातवेदः) हे विद्या में प्रसिद्ध ! (अयम्) यह पुरुष (सोमस्य अंशुः इव) चन्द्रमा की किरण अथवा सोमलता के अङ्कुर के समान (आ प्यायताम्) बढ़ता रहे। (अग्ने) हे विद्वान् पुरुष ! तू (विरप्शिनम्) विविध प्रकार से कहने योग्य महागुणी पुरुष को (अयक्ष्मम्) नीरोग और (मेध्यम्) बुद्धि के लिये हितकारी (कृणु) कर, और (जीवतु) वह जीता रहे ॥१३॥
भावार्थभाषाः - विद्वान् पुरुष शारीरिक और आत्मिक रोगों को नाश करके सब को प्रसन्न रक्खे ॥१३॥
टिप्पणी: १३−(सोमस्य) चन्द्रस्य सोमवृक्षस्य वा (इव) यथा (अंशुः) म० १२। किरणो अङ्कुरो वा (आ) सम्यक् (प्यायताम्) वर्धताम् (अयम्) पुरुषः (अग्ने) विद्वन् (विरप्शिनम्) वि+रप व्यक्तायां वाचि−शक्। विविधं रपणं विरप्शः। तदस्यास्ति, इनि। विरप्शी, महन्नाम−निघ० ३।३। महागुणविशिष्टम् (मेध्यम्) उगवादिभ्यो यत्। पा० ५।१।२। इति मेधा-यत्। मेधायै हितम्। मेधाविनम् (अयक्ष्मम्) नीरोगम् (कृणु) कुरु (जीवतु) सप्राणान् धारयतु ॥