पु॒रस्ता॑द्यु॒क्तो व॑ह जातवे॒दोऽग्ने॑ वि॒द्धि क्रि॒यमा॑णं॒ यथे॒दम्। त्वं भि॒षग्भे॑ष॒जस्या॑सि क॒र्ता त्वया॒ गामश्वं॒ पुरु॑षं सनेम ॥
पुरस्तात् । युक्त: । वह । जातऽवेद: । अग्ने । विध्दि । क्रियमाणम् । यथा । इदम् । त्वम् । भिषक् । भेषजस्य । असि । कर्ता । त्वया । गाम् । अश्वम् । पुरुषम् । सनेम ॥२९.१॥
पण्डित क्षेमकरणदास त्रिवेदी
शत्रुओं और रोगों के नाश का उपदेश।
