वांछित मन्त्र चुनें
189 बार पढ़ा गया

भूमि॑ष्ट्वा पातु॒ हरि॑तेन विश्व॒भृद॒ग्निः पि॑प॒र्त्वय॑सा स॒जोषाः॑। वी॒रुद्भि॑ष्टे॒ अर्जु॑नं संविदा॒नं दक्षं॑ दधातु सुमन॒स्यमा॑नम् ॥

मन्त्र उच्चारण
पद पाठ

भूमि: । त्वा । पातु। हरितेन । विश्वऽभृत् । अग्नि: । पिपर्तु । अयसा । सऽजोषा: । वीरुत्ऽभि: । ते । अर्जुनम् । सम्ऽविदानम् । दक्षम् । दधातु । सुऽमनस्यमानम् ॥२८.५॥

अथर्ववेद » काण्ड:5» सूक्त:28» पर्यायः:0» मन्त्र:5


पण्डित क्षेमकरणदास त्रिवेदी

रक्षा और ऐश्वर्य का उपदेश।

पदार्थान्वयभाषाः - (विश्वभृत्) सबको धारण करनेवाली (भूमिः) भूमि (हरितेन) दरिद्रता हरनेवाले पुरुषार्थ से (त्वा) तुझे (पातु) पाले, (सजोषाः) प्रीतियुक्त (अग्निः) अग्नि (अयसा) प्राप्तियोग्य कर्म से (पिपर्तु) पूर्ण करे। (वीरुद्भिः) उगती हुई लता रूप प्रजाओं से (संविदानम्) मिला हुआ (ते) तेरा (अर्जुनम्) अर्थसंग्रह (सुमनस्यमानम्) मन का शुभ करनेवाला (दक्षम्) बल (दधातु) दान करे ॥५॥
भावार्थभाषाः - मनुष्य भूमि, अग्नि आदि पदार्थों के व्यवहार से पुरुषार्थ के साथ उत्तम गुणों का संग्रह करके अपना बल बढ़ावें ॥५॥
टिप्पणी: ५−(भूमिः) भूमिव्यापार इत्यर्थः (त्वा) त्वां मनुष्यम् (पातु) रक्षतु (हरितेन) म० १। दारिद्र्यहारकेण पुरुषार्थेन (विश्वभृत्) सर्वस्य धारिका (अग्निः) शारीरिकबाह्याग्निः (पिपर्तु) पॄ पालनपूरणयोः। पूरयतु (अयसा) म० १। प्राप्येन कर्मणा (सजोषाः) सप्रीतिः (वीरुद्भिः) अ० १।३२।१। विरोहणशीलाभिर्लतारूपाभिः प्रजाभिः (ते) तव (अर्जुनम्) अर्जेर्णिलुक् च। उ० ३।५८। इति अर्ज सम्पादने णिचि−उनन्। अर्थसंग्रहः (सं विदानम्) अ० २।२८।२। संगच्छमानम् (दधातु) ददातु (सुमनस्यमानम्) अ० १।३५।१। मनसः शुभकरम् ॥