त्रयः॒ पोष॑स्त्रि॒वृति॑ श्रयन्ताम॒नक्तु॑ पू॒षा पय॑सा घृ॒तेन॑। अन्न॑स्य भू॒मा पुरु॑षस्य भू॒मा भू॒मा प॑शू॒नां त॑ इ॒ह श्र॑यन्ताम् ॥
पद पाठ
त्रय:। पोषा: । त्रिऽवृति। श्रयन्ताम् । अनक्तु । पूषा । पयसा । घृतेन । अन्नस्य । भूमा । पुरुषस्य । भूमा । भूमा । पशूनाम् । ते । इह । श्रयन्ताम् ॥२८.३॥
अथर्ववेद » काण्ड:5» सूक्त:28» पर्यायः:0» मन्त्र:3
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
रक्षा और ऐश्वर्य का उपदेश।
पदार्थान्वयभाषाः - (त्रयः) तीन (पोषाः) पोषणसामर्थ्य (त्रिवृति) त्रिवृति [तीन जीवनसाधन−म० १] में (श्रयन्ताम्) बनी रहें। (पूषा) पोषण करनेवाला अधिकारी (पयसा) दूध और (घृतेन) घृत से (अनक्तु) संयुक्त करे। (अन्नस्य) अन्न की (भूमा) बहुतायत, (पुरुषस्य) पुरुषों की (भूमा) बहुतायत और (पशूनाम्) पशुओं की (भूमा) बहुतायत (ते) यह सब (इह) यहाँ पर (श्रयन्ताम्) ठहरी रहें ॥३॥
भावार्थभाषाः - सब मनुष्य उत्तम पुरुषार्थ, उत्तम प्रबन्ध और उत्तम कर्म से [म० १] अन्न, पुरुषों और पशुओं का योग्य संग्रह करके सुख भोगें ॥३॥
टिप्पणी: ३−(त्रयः) (पोषाः) पोषणसामर्थ्यानि (त्रिवृति) म० २। त्रिवृतौ हरितरजतायोरूपत्रिसाधने−म० १। (श्रयन्ताम्) आश्रिता भवन्तु। तिष्ठन्तु (अनक्तु) संयोजयतु (पूषा) पोषकोऽधिकारी (पयसा) दुग्धेन (अन्नस्य) कॄवृजॄ०। उ० ३।१०। इति अन जीवने−न, यद्वा अद भक्षणे−क्त। जीवनसाधनस्य भक्षणीयस्य वा पदार्थस्य (भूमा) बहोर्लोपो भू च बहोः। पा० ६।४।१५८। इति बहोरिमनिच् प्रत्ययस्येकारस्य लोपो बहोश्च भूरादेशः। बहुत्वम् (पुरुषस्य) जनस्य (पशूनाम्) गवादिजन्तूनाम् (ते) भूमानः (इह) अस्मिन् संसारे ॥
