उ॑रु॒व्यच॑सा॒ग्नेर्धाम्ना॒ पत्य॑माने। आ सु॒ष्वय॑न्ती यज॒ते उ॒पाके॑ उ॒षासा॒नक्तेमं य॒ज्ञम॑वतामध्व॒रं नः॑ ॥
पद पाठ
उरुऽव्यचसा । अग्ने: । धाम्ना । पत्यमाने इति । आ । सुस्वयन्ती इति । यजते इति । उपाके इति । उषसानक्ता । इमम् । यज्ञम् । अवताम् । अध्वरम् । न: ॥२७.८॥
अथर्ववेद » काण्ड:5» सूक्त:27» पर्यायः:0» मन्त्र:8
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
पुरुषार्थ का उपदेश।
पदार्थान्वयभाषाः - (अग्नेः) सर्वव्यापक परमेश्वर के (उरु-व्यचसा) दूर-दूर तक व्यापक (धाम्ना) तेज से (पत्यमाने) ऐश्वर्य करती हुई (सुष्वयन्ती=सुसु अयन्त्यौ) अति सुन्दरता से चलती हुयी, (यजते) संगतियोग्य, (उपाके) पास-पास रहनेवाली (उषासानक्ता) रात और प्रभात वेलायें [दिन और रात] (नः) हमारे (इमम्) इस (अध्वरम्) सन्मार्गवाले (यज्ञम्) समाज को (आ अवताम्) आती रहें ॥८॥
भावार्थभाषाः - मनुष्य धर्ममार्ग में चलकर दिन-रात उन्नति करते रहें ॥८॥ मन्त्र का मिलान अ० ५।१२।६। से करो ॥
टिप्पणी: ८−(उरुव्यचसा) वि+अञ्चु गतौ−असुन्। बहुव्यापकेन (अग्नेः) सर्वव्यापकस्य परमेश्वरस्य (धाम्ना) तेजसा (पत्यमाने) पत ऐश्वर्ये−शानच्। ऐश्वर्यं कुर्वाणे (आ सुष्वयन्ती... उषासानक्ता) इति गतम्−अ० ५।१२।६। (आ) क्रियायोगे (सुष्वयन्ती) अत्यन्तं सुष्ठु अयन्त्यौ (यजते) संगन्तव्ये (उपाके) सन्निहिते (उषासानक्ता) अहोरात्रे (इमम्) (यज्ञम्) यष्टव्यं संगन्तव्यं समाजम् (आ अवताम्) अव रक्षणगत्यादिषु। आगच्छताम् (अध्वरम्) म० ५। सन्मार्गवन्तम् (नः) अस्माकम् ॥
