वांछित मन्त्र चुनें

स॑वि॒ता प्र॑स॒वाना॒मधि॑पतिः॒ स मा॑वतु। अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां। चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥

मन्त्र उच्चारण
पद पाठ

सविता । प्रऽसवानाम् । अधिऽपति: । स:। मा । अवतु । अस्मिन् । ब्रह्मणि । अस्मिन् । कर्मणि । अस्याम् । पुर:ऽधायाम् । अस्याम् । प्रतिऽस्थायाम् । अस्याम् । चित्त्याम् । अस्याम् । आऽकूत्याम् । अस्याम् । आऽशिषि । अस्याम् । देवऽहूत्याम् । स्वाहा ॥२४.१॥

अथर्ववेद » काण्ड:5» सूक्त:24» पर्यायः:0» मन्त्र:1


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

रक्षा के लिये प्रयत्न का उपदेश।

पदार्थान्वयभाषाः - (सविता) सब का उत्पन्न करनेवाला वा सम्पूर्ण ऐश्वर्यवाला जगदीश्वर (प्रसवानम्) उत्पन्न पदार्थों वा अच्छे-अच्छे ऐश्वर्यों का (अधिपतिः) अधिष्ठाता है, (सः) वह (मा) मुझे (अवतु) बचावे। (अस्मिन्) इस (ब्रह्मणि) बड़े वेदज्ञान में, (अस्मिन्) इस (कर्मणि) कर्तव्य कर्म में, (अस्याम्) इस (पुरोधायाम्) पुरोहित पदवी में, (अस्याम्) इस (प्रतिष्ठायाम्) प्रतिष्ठा वा सत्क्रिया में, (अस्याम्) इस (चित्याम्) चेतना में, (अस्याम्) इस (आकूत्याम्) इस संकल्प वा उत्साह में, (अस्याम्) इस (आशिषि) अनुशासन में, और (अस्याम्) इस (देवहूत्याम्) विद्वानों के बुलावे में, (स्वाहा) यह आशीर्वाद हो ॥१॥
भावार्थभाषाः - मनुष्य जगत्पति परमात्मा का आश्रय लेकर अपने सब उत्तम कार्य पुरुषार्थपूर्वक सिद्ध करें ॥१॥
टिप्पणी: १−(सविता) सर्वोत्पादकः। सर्वैश्वर्यवान् परमेश्वरः (प्रसवानाम्) प्रसूतानामुत्पन्नानां पदार्थानां प्रकृष्टैश्वर्याणां वा (अधिपतिः) अधिष्ठाता (सः) (मा) माम् (अवतु) पालयतु (अस्मिन्) पुरोवर्त्तिनि (ब्रह्मणि) बृहति वेदज्ञाने (अस्मिन्) (कर्मणि) वेदोक्तकर्तव्ये व्रते (अस्याम्) उपस्थितायाम् (पुरोधायाम्) पुरस्+डुधाञ् धारणपोषणयोः−अङ्, टाप्। पुरोहितपदव्याम्। मुख्यपदे (प्रतिष्ठायाम्) प्रति+ष्ठा गतिनिवृत्तौ−अङ्, टाप्। सुकृतौ (चित्याम्) चिती संज्ञाने−क्तिन्। चेतनायाम् (आकूत्याम्) कुङ् शब्दे−क्तिन्। संकल्पे। उत्साहे (आशिषि) आङ्+शासु अनुशिष्टौ−क्विप्। आशासः क्वावुपधाया इत्वं वाच्यम्। वा० पा० ६।४।३४। इति इत्वम्। अनुशासने (देवहूत्याम्) ह्वेञ् आह्वाने−क्तिन्। विदुषामावाहने (स्वाहा) अ० २।१६।१। सु+आङ्+ह्वेञ्−डा। सुवाणी। आशीर्वादः ॥