वांछित मन्त्र चुनें

उत्पु॒रस्ता॒त्सूर्य॑ एति वि॒श्वदृ॑ष्टो अदृष्ट॒हा। दृ॒ष्टांश्च॒ घ्नन्न॒दृष्टां॑श्च॒ सर्वां॑श्च प्रमृ॒णन्क्रिमी॑न् ॥

मन्त्र उच्चारण
पद पाठ

उत् । पुरस्तात् । सूर्य: । एति । विश्वऽदृष्ट: । अदृष्टऽहा । दृष्टान् । च । घ्नन् । अदृष्टान् । च । सर्वान् । च । प्रऽमृणन् । क्रिमीन् ॥२३.६॥

अथर्ववेद » काण्ड:5» सूक्त:23» पर्यायः:0» मन्त्र:6


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

छोटे-छोटे दोषों के नाश का उपदेश।

पदार्थान्वयभाषाः - (विश्वदृष्टः) सबों करके देखा गया, (अदृष्टहा) अगोचर पदार्थों में गतिवाला (सूर्यः) सूर्य (दृष्टान्) दीखते हुए (च) और (अदृष्टान्) न दीखते हुए (सर्वान्) सब (क्रिमीन्) कीड़ों को (च) अवश्य (घ्नन्) मारता हुआ (च) और (प्रमृणन्) मिटाता हुआ (पुरस्तात्) पूर्व दिशा में (उत् एति) उदय होता है ॥६॥
भावार्थभाषाः - जैसे सूर्य अपने प्रकाश से अन्धकार आदि नाश करता है, वैसे ही वैद्य ओषधि द्वारा रोगों को नाश करे ॥६॥
टिप्पणी: ६−(उत् एति) उदितो भवति (पुरस्तात्) पूर्व−अस्ताति, पुर् आदेशः। अग्रतः। पूर्वस्यां दिशि (विश्वदृष्टः) सर्वैर्दृष्टः (अदृष्टहा) हन गतौ−क्विप्। अगोचरपदार्थेषु व्यापकः (दृष्टान्) गोचरान् (च) समुच्चये (घ्नन्) नाशयन् (अदृष्टान्) अगोचरान् (च) (सर्वान्) सकलान् (च) अवश्यम् (प्रमृणन्) प्रकर्षेण नाशयन् (क्रिमीन्) कीटान् ॥