सरू॑पौ॒ द्वौ विरू॑पौ॒ द्वौ कृ॒ष्णौ द्वौ रोहि॑तौ॒ द्वौ। ब॒भ्रुश्च॑ ब॒भ्रुक॑र्णश्च॒ गृध्रः॒ कोक॑श्च॒ ते ह॒ताः ॥
पद पाठ
सऽरूपौ । द्वौ । विऽरूपौ । द्वौ । कृष्णौ । द्वौ । रोहितौ । द्वौ । बभ्रु: । च । बभ्रुऽकर्ण: । च । गृध्र । कोक: । च । ते । हता: ॥२३.४॥
अथर्ववेद » काण्ड:5» सूक्त:23» पर्यायः:0» मन्त्र:4
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
छोटे-छोटे दोषों के नाश का उपदेश।
पदार्थान्वयभाषाः - (द्वौ) दो (सरूपौ) एक से रूपवाले, (द्वौ) दो (विरूपौ) विरुद्ध रूपवाले, (द्वौ) दो (कृष्णौ) काले, (द्वौ) दो (रोहितौ) लाल (च) और (बभ्रुः) भूरा (च) और (बभ्रुकर्णः) भूरे कानवाला और (गृध्रः) गिद्ध, (च) और (कोकः) भेड़िया, (ते) वे सब (हताः) मारे गये ॥४॥
भावार्थभाषाः - मनुष्य नाना आकारवाले कृमियों के समान नाना प्रकार की कुवासनाओं का नाश करें ॥४॥
टिप्पणी: ४−(सरूपौ) समानाकारौ (द्वौ) क्रिमी (विरूपौ) विरुद्धरूपौ (द्वौ) (कृष्णौ) कृषेर्वर्णे। उ० ३।४। इति कृष विलेखने−नक्। श्यामवर्णौ (द्वौ) (रोहितौ) रक्तवर्णौ (बभ्रुः) पिङ्गलवर्णः (बभ्रुकर्णः) पिङ्गलश्रोत्रः (गृध्रः) सुसूधाञ्गृधिभ्यः क्रन्। उ० २।२४। इति गृधु अभिकाङ्क्षायाम्−क्रन्। गृध्र आदित्यो भवति गृध्यतेः स्थानकर्मणः... गृध्राणीन्द्रियाणि गृध्यतेर्ज्ञानकर्मणः−निरु० १४।१३। गृधाकारः क्रिमिः (कोकः) कुक आदाने−पचाद्यच्। वृकाकारः क्रिमिः (च) (ते) क्रिमयः (हताः) नाशिताः ॥
