वांछित मन्त्र चुनें

अ॒यं यो विश्वा॒न्हरि॑तान्कृ॒णोष्यु॑च्छो॒चय॑न्न॒ग्निरि॑वाभिदु॒न्वन्। अधा॒ हि त॑क्मन्नर॒सो हि भू॒या अधा॒ न्य॑ङ्ङध॒राङ् वा॒ परे॑हि ॥

मन्त्र उच्चारण
पद पाठ

अयम् । य: । विश्वान् । हरितान् । कृणोषि । उत्ऽशोचयन् । अग्नि:ऽइव । अभिऽदुन्वन् । अध । हि ।तक्मन् ।अरस:। हि । भूया: । अध । न्यङ् । अधराङ् । वा । परा । इहि ॥२२.२॥

अथर्ववेद » काण्ड:5» सूक्त:22» पर्यायः:0» मन्त्र:2


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

रोग नाश करने का उपदेश।

पदार्थान्वयभाषाः - (अयम्) यह (यः) जो तू (विश्वान्) सब [मनुष्यों] को (उच्छोचयन्) शोक में डालता हुआ, और (अग्निः इव) अग्नि के समान (अभिदुन्वन्) तपाता हुआ (हरितान्) पीला (कृणोषि) कर देता है। (अध) सो (हि) इसलिये (तक्मन्) हे दुःखित जीवन करने हारे ज्वर ! तू (हि) अवश्य (अरसः) निर्बल (भूयाः) होजा। (अध) और (वा) अथवा (न्यङ्) नीच स्थान से (अधराङ्) नीच स्थान को (परा इहि) चम्पत हो जा ॥२॥
भावार्थभाषाः - जैसे सद्वैद्य ज्वर आदि रोगों को, वैसे ही बुद्धिमान् कुकाम, कुक्रोध आदि को निकाल देवे ॥२॥
टिप्पणी: २−(अयम्) प्रसिद्धः (यः) यस्त्वम् (विश्वान्) सर्वान् मनुष्यान् (हरितान्) अ० १।२५।२। पीतवर्णान् (कृणोषि) करोषि (उच्छोचयन्) शुच शोके णिचि, शतृ। विपादयन् (अग्निः इव) पावको यथा (अभिदुन्वन्) टुदु उपतापे−शतृ। उपतापयन् (अध) अथ। अपि (हि) यस्मात् कारणात् (तक्मन्) म० १। हे कृच्छ्रजीवनकर ज्वर (अरसः) असमर्थः। निष्प्रभावः (हि) अवश्यम् (भूयाः) (अध) (न्यङ्) नि+अञ्च गतौ−क्विन्, विभक्तिलोपः। नीचः। निम्नस्थानात् (अधराङ्) अधर+अञ्चु गतौ−क्विन्, विभक्तिलोपः। नीचः। निम्नस्थानात् (अधराङ्) अधर+अञ्चु−क्विन्। नीचस्थानम् (वा) अथवा (परा) पृथक् (इहि) गच्छ ॥