वांछित मन्त्र चुनें

मा स्मै॒तान्त्सखी॑न्कुरुथा ब॒लासं॑ का॒समु॑द्यु॒गम्। मा स्मातो॒ऽर्वाङैः पुन॒स्तत्त्वा॑ तक्म॒न्नुप॑ ब्रुवे ॥

मन्त्र उच्चारण
पद पाठ

मा । स्म । एतान् । सखीन् । कुरुथा: । बलासम् । कासम् । उत्ऽयुगम् । मा । स्म । अत: । अर्वाङ् । आ । ऐ: । पुन: । तत् । त्वा । तक्मन् । उप । ब्रुवे ॥२२.११॥

अथर्ववेद » काण्ड:5» सूक्त:22» पर्यायः:0» मन्त्र:11


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

रोग नाश करने का उपदेश।

पदार्थान्वयभाषाः - (बलासम्) बल गिरानेवाले सन्निपात कफ आदि, (कासम्) कुत्सित शब्द करनेवाली खाँसी और (उद्युगम्) सुख रोकनेवाले, क्षयी रोग, (एतान्) इनको (सखीन्) अपना मित्र [मा स्म कुरुथाः] कभी मत बना। [अतः] उस स्थान से (पुनः) फिर (अर्वाङ्) हमारे सन्मुख होकर (मा स्म आ ऐः) कभी मत आ। [तत्] यह बात (तक्मन्) हे ज्वर ! (त्वा) तुझ से (उप ब्रुवे) मैं कहे देता हूँ ॥११॥
भावार्थभाषाः - सद्वैद्य प्रयत्न करे, जिससे ज्वर के साथ अन्य रोग न होने पावें और ज्वर छुटता चला जावे ॥११॥
टिप्पणी: ११−(स्म) अवश्यम् (एतान्) निर्दिष्टान् (सखीन्) मित्रवत्सहायकान् (मा कुरुथाः) लङि रूपम्, माङि अडभावः। मा कुरु (बलासम्) अ० ४।९।८। बलस्य क्षेप्तारम्। श्लेष्मविकारम् (कासम्) अ० १।१२।३। रोगविशेषम्। (उद्युगम्) उत्+युगि वर्जने−घञर्थे क, नलोपः। सुखवर्जकं क्षयरोगम् (अतः) तस्मात् स्थानात् (अर्वाङ्) अ० ३।२।३। अस्मदभिमुखः सन् (मा आ ऐः) इण् गतौ−लङ्। नागच्छ (पुनः) पश्चात् (तत्) वचनम् (त्वा) त्वाम् (तक्मन्) हे ज्वर ! (उप) उपेत्य (ब्रुवे) कथयामि ॥