वांछित मन्त्र चुनें

यत्त्वं शी॒तोऽथो॑ रू॒रः स॒ह का॒सावे॑पयः। भी॒मास्ते॑ तक्मन्हे॒तय॒स्ताभिः॑ स्म॒ परि॑ वृङ्ग्धि नः ॥

मन्त्र उच्चारण
पद पाठ

यत् । त्वम् । शीत: । अथो इति । रूर: । सह । कासा । अवेपय: । भीमा: । ते । तक्मन् । हेतय: । ताभि: । स्म । परि । वृङ्गिध । न: ॥२२.१०॥

अथर्ववेद » काण्ड:5» सूक्त:22» पर्यायः:0» मन्त्र:10


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

रोग नाश करने का उपदेश।

पदार्थान्वयभाषाः - (यत्) जिस कारण (शीतः) शीत (अथो) और (रूरः) क्रूर (त्वम्) तूने (कासा=कासेन) (सह) खाँसी के साथ [हमें] (अवेपयः) कँपा दिया है। (तक्मन्) हे दुःखित जीवन करनेवाले ज्वर ! (ते) तेरी (हेतयः) चोटें (भीमाः) भयानक हैं, (ताभिः) उनसे (नः) हमको (स्म) अवश्य (परि वृङ्ग्धि) छोड़ दे ॥१०॥
भावार्थभाषाः - मनुष्य यत्नपूर्वक नीरोग रहकर शारीरिक और मानसिक बल बढ़ावें ॥१०॥ (तक्मा) ज्वर विषय का अ० का० १ स–० २५ से मिलान करो ॥
टिप्पणी: १०−(यत्) यस्मात् कारणात् (त्वम्) (शीतः) अ० १।२५।४। शीतलः (अथो) अपि च (रूरः) अ० १।२५।४। रुङ् वधे−रक्, दीर्घः। पीडकः (सह) सहितः (कासा) अ० १।१२।३। विभक्तेराकारः। कासेन। रोगविशेषेण (अवेपयः) टुवेपृ कम्पने णिच्−लङ्। कम्पितवानसि (भीमाः) करालाः (ते) तव (तक्मन्) हे ज्वर (हेतयः) हननशक्तयः (ताभिः) हेतिभिः (स्म) अवश्यम् (परि) (वृङ्ग्धि) वृजी वर्जने। परित्यज (नः) अस्मान् ॥