वांछित मन्त्र चुनें

यथा॑ श्ये॒नात्प॑त॒त्रिणः॑ संवि॒जन्ते॒ अह॑र्दिवि सिं॒हस्य॑ स्त॒नथो॒र्यथा॑। ए॒वा त्वं दु॑न्दुभे॒ऽमित्रा॑न॒भि क्र॑न्द॒ प्र त्रा॑स॒याथो॑ चि॒त्तानि॑ मोहय ॥

मन्त्र उच्चारण
पद पाठ

यथा । श्येनात् । पतत्रिण: । सम्ऽविजन्ते । अह:ऽदिवि । सिंहस्य । स्तनथो: । यथा । एव । त्वम् । दुन्दुभे । अमित्रान् । अभि । क्रन्द । प्र । त्रासय । अथो इति । चित्तानि । मोहय ॥२१.६॥

अथर्ववेद » काण्ड:5» सूक्त:21» पर्यायः:0» मन्त्र:6


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

शत्रुओं को जीतने को उपदेश।

पदार्थान्वयभाषाः - (यथा) जैसे (श्येनात्) श्येन [वाज] से (पतत्रिणः) पक्षी (अहर्दिवि) प्रति दिन (संविजन्ते) डर कर भागते हैं, और (यथा) जैसे (सिंहस्य) सिंह की (स्तनथोः) गर्जन से, (एव) वैसे ही (दुन्दुभे) हे दुन्दुभि ! (त्वम्) तू (अमित्रान् अभि) वैरियों पर (क्रन्द) गर्ज, और (प्रत्रासय) डरा दे, (अथो) और भी (चित्तानि) उनके चित्तों को (मोहय) घबड़ा दे ॥६॥
भावार्थभाषाः - मन्त्र ४ के समान ॥६॥
टिप्पणी: ६−(यथा) येन प्रकारेण (श्येनात्) अ० ३।३।३। शीघ्रगतिपक्षिविशेषात् (पतत्रिणः) अ० १।१५।१। पक्षिणः (सं विजन्ते) भयेन चलन्ति (अहर्दिवि) दिने दिने (सिंहस्य) अ० ४।८।७। हिंसकजन्तुविशेषस्य (स्तनयोः) ट्वितोऽथुच्। पा० ३।३।८९। इति स्तन देवशब्दे−अथुच्, बाहुलकात्। गर्जनात्। अन्यत् पूर्ववत् म० ४ ॥