133 बार पढ़ा गया
यथा॒ वृका॑दजा॒वयो॒ धाव॑न्ति ब॒हु बिभ्य॑तीः। ए॒वा त्वं दु॑न्दुभे॒ऽमित्रा॑न॒भि क्र॑न्द॒ प्र त्रा॑स॒याथो॑ चि॒त्तानि॑ मोहय ॥
पद पाठ
यथा । वृकात् । अजऽअवय: । धावन्ति । बहु । बिभ्यती: । । एव । त्वम् । दुन्दुभे । अमित्रान् । अभि । क्रन्द । प्र । त्रासय । अथोऽइति । चित्तानि । मोहय ॥२१.५॥
अथर्ववेद » काण्ड:5» सूक्त:21» पर्यायः:0» मन्त्र:5
पण्डित क्षेमकरणदास त्रिवेदी
शत्रुओं को जीतने को उपदेश।
पदार्थान्वयभाषाः - (यथा) जैसे (वृकात्) भेड़िये से (बहु) बहुत (बिभ्यतीः) डरती हुई (अजावयः) बकरी और भेड़ें (धावन्ति) भाग जाती हैं। (एव) वैसे ही... म० ४ ॥५॥
भावार्थभाषाः - मन्त्र ४ के समान ॥५॥
टिप्पणी: ५−(यथा) येन प्रकारेण (वृकात्) कुक्कुराकाराद् व्याघ्रभेदात् (अजावयः) वर्करीमेष्यः (धावन्ति) पलायन्ते (बहु) अत्यन्तम् (बिभ्यतीः) बिभ्यत्यः। भयं गच्छन्त्यः। अन्यत् पूर्ववत् म० ॥५॥
