वांछित मन्त्र चुनें

धी॒भिः कृ॒तः प्र व॑दाति॒ वाच॒मुद्ध॑र्षय॒ सत्व॑ना॒मायु॑धानि। इन्द्र॑मेदी॒ सत्व॑नो॒ नि ह्व॑यस्व मि॒त्रैर॒मित्राँ॒ अव॑ जङ्घनीहि ॥

मन्त्र उच्चारण
पद पाठ

धीभि: । कृत: । प्र । वदाति । वाचम् । उत् । हर्षय । सत्वनाम् । आयुधानि । इन्द्रऽमेदी । सत्वन: । नि । ह्वयस्व । मित्रै: । अमित्रान् । अव । जङ्घनीहि ॥२०.८॥

अथर्ववेद » काण्ड:5» सूक्त:20» पर्यायः:0» मन्त्र:8


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

संग्राम में जय का उपदेश।

पदार्थान्वयभाषाः - (धीभिः) शिल्पकर्म से (कृतः) बनाया गया वह (वाचम्) शब्द (प्रवदाति) अच्छे प्रकार बोले। (सत्वनाम्) हमारे वीरों के (आयुधानि) शस्त्रों को (उत् हर्षय) ऊँचा उठा। (इन्द्रमेदी) ऐश्वर्यवान् सेनापति का मित्र तू (सत्वनः) हमारे वीरों को (नि) नियम से (ह्वयस्व) बुला। (मित्रैः) मित्रों के साथ (अमित्रान्) वैरियों को (अव जङ्घनीहि) गिरा कर मार डाल ॥८॥
भावार्थभाषाः - सेनादल दुन्दुभि का शब्द सुनकर अपने शस्त्र लेकर शत्रुओं पर धावा करके मारें ॥८॥
टिप्पणी: ८−(धीभिः) शिल्पकर्मभिः। धीः कर्मनाम−निघ० २।१। (कृतः) निष्पादितः (प्र) प्रकर्षेण (वदाति) कथयतु (वाचम्) शब्दम् (उत् हर्षय) ऊर्ध्वानि कुरु (सत्वनाम्) अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७५। इति षद्लृ विशरणगत्यवसादनेषु−क्वनिप्, दस्य तः। गतिशीलानां वीराणाम् (आयुधानि) शस्त्राणि (इन्द्रमेदी) ऐश्वर्यवतः सेनापतेः स्नेही (सत्वनः) वीरान् (नि) नियमेन (ह्वयस्व) आह्वय (मित्रैः) सुहृद्भिः (अमित्रान्) शत्रून् (अव) अधः-पातेन (जङ्घनीहि) हन हिंसागत्योः−यङ्लुकि लोटि छान्दसं रूपम्। जङ्घनीहि भृशं मारय ॥