वांछित मन्त्र चुनें

स्तु॒ष्व व॑र्ष्मन्पुरु॒वर्त्मा॑नं॒ समृभ्वा॑णमि॒नत॑ममा॒प्तमा॒प्त्याना॑म्। आ द॑र्शति॒ शव॑सा॒ भूर्यो॑जाः॒ प्र स॑क्षति प्रति॒मानं॑ पृथि॒व्याः ॥

मन्त्र उच्चारण
पद पाठ

स्तुष्व । वर्ष्मन् । पुरुऽवर्त्मानम् । सम् । ऋभ्वाणम् । इनऽतमम् । आप्तम् । आप्त्यानाम् ।आ । दर्शति । शवसा । भूरिऽओजा: । प्र । सक्षति । प्रतिऽमानम् । पृथिव्या: ॥२.७॥

अथर्ववेद » काण्ड:5» सूक्त:2» पर्यायः:0» मन्त्र:7


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परमेश्वर के गुणों का उपदेश।

पदार्थान्वयभाषाः - (वर्ष्मन्) हे ऐश्वर्यवान् पुरुष ! (पुरुवर्त्मानम्) बहुत मार्गवाले (ऋभ्वाणम्) दूर-दूर तक चमकनेवाले, (इनतमम्) महा प्रभु और (आप्त्यानाम्) आप्त [यथार्थवक्ता] पुरुषों में रहनेवाले गुणों के (आप्तम्) यथार्थवक्ता परमेश्वर की (सम्) यथावत् (स्तुष्व) स्तुति कर। (भूर्योजाः) वह महाबली (शवसा) अपने बल से (आ) सब ओर (दर्शति) देखता है, और वह (पृथिव्याः) पृथिवी का (प्रतिमानम्) प्रतिमान होकर (प्र) भली-भाँति (सक्षति) व्यापता है ॥७॥
भावार्थभाषाः - मनुष्य जगदीश्वर परमात्मा के गुण कर्म स्वभाव विचार कर अपनी उन्नति करें ॥७॥ (पृथिव्याः प्रतिमानम्) इसके साथ मिलान करो [पृथिवीव वरिम्णा] य० ३।५। वह पृथिवी के समान अपने फैलाव से है ॥
टिप्पणी: ७−(स्तुष्व) प्रशंस (वर्ष्मन्) अ० ३।४।२। वृष प्रजननैश्ययोः−मनिन्। हे ऐश्वर्य्यवन् मनुष्य (पुरुवर्त्मानम्) बहुमार्गवन्तम् (सम्) सम्यक् (ऋभ्वाणम्) आतो मनिन्क्वनिब्वनिपश्च। पा० ३।२।७४। इति उरु+भा दीप्तौ यद्वा भू सत्तायाम्−वनिप्, स च डित्। उरुशब्दस्य ऋकारः। ऋभव उरु भान्तीति वा, ऋतेन भान्तीति वा, ऋतेन भवन्तीति वा−निरु० ११।१५। उरु−भासनम्। उरुभूतम् (इनतमम्) अतिशयेनेश्वरं (आप्तम्) आप्लृ−क्त। यथार्थवक्तारम् (आप्त्यानाम्) आप्त−यत्। आप्तेषु यथार्थज्ञातृषु भवानां गुणानाम् (आ) समन्तात् (दर्शति) पश्यति (शवसा) बलेन (भूर्योजाः) महाबलः (प्र) प्रकर्षेण (सक्षति) षच समवाये−लेटि सिप्। गतिकर्मा−निघ० २।१४। सक्षतिराप्नोतिकर्मा−निरु० ११।२१। व्याप्नोति (प्रतिमानम्) माङ् माने−ल्युट्। प्रतिरूपं सत् (पृथिव्याः) भूमेः ॥