नि तद्द॑धि॒षेऽव॑रे॒ परे॑ च॒ यस्मि॒न्नावि॒थाव॑सा दुरो॒णे। आ स्था॑पयत मा॒तरं॑ जिग॒त्नुमत॑ इन्वत॒ कर्व॑राणि॒ भूरि॑ ॥
पद पाठ
नि । तत् । दधिषे । अवरे । परे । च । यस्मिन् । आविथ । अवसा । दुरोणे । आ । स्थापयत । मातरम् । जिगत्नुम् ।अत: । इन्वत । कर्वराणि । भूरि॥२.६॥
अथर्ववेद » काण्ड:5» सूक्त:2» पर्यायः:0» मन्त्र:6
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
परमेश्वर के गुणों का उपदेश।
पदार्थान्वयभाषाः - [हे परमात्मन् !] (अवरे) छोटे (च) और (परे) बड़े मनुष्य में (तत्) उस [घर] को (नि) निश्चय करके (दधिषे) तूने पोषण किया है। (यस्मिन्) जिस (दुरोणे) कष्ट से भरने योग्य घर में (अवसा) अन्न से (आविथ) तूने रक्षा की है। [हे मनुष्यो !] (जिगत्नुम्) सर्वव्यापक (मातरम्) माता [परमेश्वर] को (आ) भली-भाँति (स्थापयत) [हृदय में] ठहराओ और (अतः) इसी से (भूरि) बहुत से (कर्वराणि) कर्मों को (इन्वत) सिद्ध करो ॥६॥
भावार्थभाषाः - मनुष्य परमेश्वर की उपासनापूर्वक अन्न आदि पदार्थ प्राप्त करके अपने सब काम सिद्ध करें ॥६॥
टिप्पणी: ६−(नि) निश्चयेन (तत्) दुरोणम् (दधिषे) डुधाञ् धारणपोषणयोः−लिट्। पोषितवानसि (अवरे) अल्पे जने (परे) उत्कृष्टे (च) (यस्मिन्) (आविथ) अवतेर्लिट्। त्वं रक्षितवानसि (अवसा) अवः=अन्नम्−निघ० २।७। तर्पकेणान्नेन (दुरोणे) रास्नासास्ना०। उ० ३।१५। इति दुःपूर्वादवतेर्नकि रुटि गुणः। दुरोण इति गृहनाम दुःखा भवन्ति दुस्तर्पाः−निरु० ४।५। दुस्तर्पे गृहे (आ) समन्तात् (स्थापयत) धारयत हृदये हे जनाः (मातरम्) निर्मात्रीं शक्तिम्। परमात्मानम् (जिगत्नुम्) गमेः सन्वच्च। उ० ३।३१। इति गम्लृ−गतौ−क्त्नु। गतिशीलां व्यापिकाम् (अतः) अस्मात्कारणात् (इन्वत) इवि व्याप्तौ। व्याप्नुत। साधयत (कर्वराणि) कॄगॄशॄवॄञ्चतिभ्यः ष्वरच्। उ० २।१२१। इति डुकृञ् करणे−ष्वरच्। कर्माणि−निघ० २।१। (भूरि) भूरीणि ॥
