183 बार पढ़ा गया
त्वया॑ व॒यं शा॑शद्महे॒ रणे॑षु प्र॒पश्य॑न्तो यु॒धेन्या॑नि॒ भूरि॑। चो॒दया॑मि त॒ आयु॑धा॒ वचो॑भिः॒ सं ते॑ शिशामि॒ ब्रह्म॑णा॒ वयां॑सि ॥
पद पाठ
त्वया। वयम् । शाशद्महे । रणेषु । प्रऽपश्यन्त: । युधेन्यानि । भूरि । चोदयामि । ते । आयुधा । वच:ऽभि: । सम् । ते । शिशामि । ब्रह्मणा । वयांसि ॥२.५॥
अथर्ववेद » काण्ड:5» सूक्त:2» पर्यायः:0» मन्त्र:5
पण्डित क्षेमकरणदास त्रिवेदी
परमेश्वर के गुणों का उपदेश।
पदार्थान्वयभाषाः - (भूरि) बहुत से (युधेन्यानि) युद्धों को (प्रपश्यन्तः) देखते हुए (वयम्) हम लोग (त्वया) तेरे साथ (रणेषु) रणक्षेत्रों में [शत्रुओं को] (शाशद्महे) मार गिराते हैं। (ते) तेरे (वचोभिः) वचनों से (आयुधा) अपने शस्त्रों को (चोदयामि) मैं आगे बढ़ाता हूँ और (ते) तेरे (ब्रह्मणा) ब्रह्मज्ञान से (वयांसि) अपने जीवनों को (सम्) यथावत् (शिशामि) तीक्ष्ण करता हूँ ॥५॥
भावार्थभाषाः - शूर वीर मनुष्य परमेश्वर में विश्वास करके पुरुषार्थपूर्वक बड़े-बड़े कार्य सिद्ध करते हैं ॥५॥
टिप्पणी: ५−(त्वया) इन्द्रेण सह (वयम्) उपासकाः (शाशद्महे) शद्लृ शातने यङ्लुकि रूपम्। भृशं शातयामः, नाशयामः शत्रून् (रणेषु) रणक्षेत्रेषु (प्रपश्यन्तः) प्रकर्षेणावलोकयन्तः (युधेन्यानि) वृञ एण्यः। उ० ३।९८। इति बाहुलकाद्−युध सम्प्रहारे−एन्य, स च कित्। युद्धानि (भूरि) भूरीणि बहूनि (चोदयामि) प्रेरयामि (ते) तव (आयुधा) स्वायुधानि (वचोभिः) वचनैः। उपदेशैः (सम्) सम्यक् (ते) तव (शिशामि) शो तनूकरणे-श्यनः श्लुः, इत्वं च। श्यामि, तनूकरोमि (ब्रह्मणा) ब्रह्मज्ञानेन (वयांसि) स्वजीवनानि ॥
