वांछित मन्त्र चुनें

तं वृ॒क्षा अप॑ सेधन्ति च्छा॒यां नो॒ मोप॑गा॒ इति॑। यो ब्रा॑ह्म॒णस्य॒ सद्धन॑म॒भि ना॑रद॒ मन्य॑ते ॥

मन्त्र उच्चारण
पद पाठ

तम् । वृक्षा: । अप । सेधन्ति । छायाम् । न: । मा । उप । गा: । इति ।य: । ब्राह्मणस्य । सत् । धनम् । अभि । नारद । मन्यते ॥१९.९॥

अथर्ववेद » काण्ड:5» सूक्त:19» पर्यायः:0» मन्त्र:9


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

नास्तिक के तिरस्कार का उपदेश।

पदार्थान्वयभाषाः - (तम्) उसको (वृक्षाः) वृक्ष (अप सेधन्ति) हटा देते हैं,(नः) हमारी (छायाम्) छाया में (मा उप गाः) मत आ, (इति) ऐसा कह कर। (यः) जो पुरुष, (नारद) हे नर [सर्वनायक, परमात्मा] के ज्ञान देनेवाले मनुष्य ! (ब्राह्मणस्य) ब्राह्मण के (सत्) श्रेष्ठ (धनम्) धनको [अभि=अभिभूय] दबा कर (मन्यते) अपना मानता है ॥९॥
भावार्थभाषाः - ब्राह्मण पर अत्याचार के कारण कुप्रबन्ध होने से वन उपवन वाटिका आदि नष्ट हो जाते हैं ॥९॥
टिप्पणी: ९−(तम्) अत्याचारिणम् (वृक्षाः) अ० ३।६।८। स्वीकरणीयास्तरवः (अप सेधन्ति) अपसेधयन्ति निवारयन्ति (छायाम्) (नः) अस्माकम् (मा उप गाः) इणो गा लुङि। पा० २।४।४५। इति इण् गतौ लुङि गादेशः। अडभावो माङि। न प्राप्नुहि (इति) वाक्यसमाप्तौ (यः) दुष्टः (ब्राह्मणस्य) ब्रह्मवेत्तुः (सत्) श्रेष्ठम् (धनम्) वित्तम् (अभि) अभिभूय (नारद) नरति नयतीति नरः। नृ नये−अच्। नरस्येदम्, अण्। नारं परमात्मज्ञानं ददातीति, दा−क। हे सर्वनायकपरमेश्वरस्य ज्ञानप्रद (मन्यते) स्वकीयं जानाति ॥