अ॒ष्टाप॑दी चतुर॒क्षी चतुः॑श्रोत्रा॒ चतु॑र्हनुः। द्व्या॑स्या॒ द्विजि॑ह्वा भू॒त्वा सा रा॒ष्ट्रमव॑ धूनुते ब्रह्म॒ज्यस्य॑ ॥
पद पाठ
अष्टाऽपदी । चतु:ऽअक्षी: । चतु:ऽश्रोत्रा । चतु:ऽहनु: । द्विऽआस्या । द्विऽजिह्वा । भूत्वा । सा ।राष्ट्रम् । अव । धूनुते । ब्रह्मऽज्यस्य ॥१९.७॥
अथर्ववेद » काण्ड:5» सूक्त:19» पर्यायः:0» मन्त्र:7
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
नास्तिक के तिरस्कार का उपदेश।
पदार्थान्वयभाषाः - (सा) वह [वेदविद्या] (अष्टापदी) [छोटाई, हलकाई, प्राप्ति, स्वतन्त्रता, बड़ाई, ईश्वरपन, जितेन्द्रियता और सत्य संकल्प, आठ ऐश्वर्य] आठ पद प्राप्त करानेवाली (चतुरक्षी) [ब्रह्मण, क्षत्रिय, वैश्य और शूद्र] चार वर्णों में व्याप्तिवाली, (चतुःश्रोत्रा) [ब्रह्मचर्य, गृहस्थ, वानप्रस्थ, और संन्यास] चार आश्रमों में श्रवण शक्तिवाली, (चतुर्हनुः) [धर्म, अर्थ, काम और मोक्ष] चार पदार्थों में गतिवाली, (द्व्यास्या) [परमात्मा और जीवात्मा] दोनों का ज्ञान करानेवाली और (द्विजिह्वा) [बाहिरी और भीतरी] दोनों सुखों की जीत करानेवाली (भूत्वा) होकर (ब्रह्मज्यस्य) ब्राह्मण के हानि करनेवाले के (राष्ट्रम्) राज्य को (अवधूनुते) हिला डालती है ॥७॥
भावार्थभाषाः - वेदविद्या सर्वथा कल्याणी होने से अत्याचारी दुष्टों का नाश कर देती है ॥७॥
टिप्पणी: ७−(अष्टापदी) अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा। ईशित्वं च वशित्वं च तथा कामावसायिता ॥१॥ इति अष्टैश्वर्याणि पदानि प्राप्तव्यानि यया सा (चतुरक्षी) अशेर्नित्। उ० ३।१५६। इति अशू व्याप्तौ−क्सि, ङीप्। चतुर्षु ब्राह्मणक्षत्रियवैश्यशूद्रेषु वर्णेषु अक्षि व्याप्तिर्यस्याः सा (चतुःश्रोत्रा) चतुर्षु ब्रह्मचर्यगार्हस्थ्यवानप्रस्थसंन्यासाश्रमेषु श्रोत्रं श्रवणं कीर्तनं यस्याः सा (चतुर्हनुः) शॄस्वृस्निहि०। उ० १।१०। इति हन गतौ−उ प्रत्ययः। चतुर्षु धर्मार्थकाममोक्षेषु पदार्थेषु हनुर्गतिर्यस्याः सा (द्व्यास्या) ऋहलोर्ण्यत्। पा० ३।१।१२४। इति अस ग्रहणे−ण्यत्। द्वे परमात्मजीवात्मज्ञाने आस्ये ग्राह्ये यया सा (द्विजिह्वा) शेवायह्वजिह्वा०। उ० १।१५४। इति जि जये−वन्−हुक् च। द्वे बाह्याभ्यन्तरसुखे जेतव्ये यया सा (भूत्वा) (सा) ब्रह्मविद्या (राष्ट्रम्) राज्यम् (अव) अनादरे (धूनुते) धूञ् कम्पने−कम्पयति (ब्रह्मज्यस्य) ब्रह्म+ज्या वयोहानौ−क, अन्तर्गतण्यर्थः। ब्राह्मणस्य हानिकारकस्य ॥
