वांछित मन्त्र चुनें

उ॒ग्रो राजा॒ मन्य॑मानो ब्राह्म॒णं यो जिघ॑त्सति। परा॒ तत्सि॑च्यते रा॒ष्ट्रं ब्रा॑ह्म॒णो यत्र॑ जी॒यते॑ ॥

मन्त्र उच्चारण
पद पाठ

उग्र: । राजा । मन्यमान:। ब्राह्मणम् । य: । जिघत्सति । परा । तत् । सिच्यते । राष्ट्रम् । ब्राह्मण: । यत्र । जीयते ॥१९.६॥

अथर्ववेद » काण्ड:5» सूक्त:19» पर्यायः:0» मन्त्र:6


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

नास्तिक के तिरस्कार का उपदेश।

पदार्थान्वयभाषाः - (यः) जो (उग्रः) प्रचण्ड (राजा) राजा (मन्यमानः) गर्व करता हुआ (ब्राह्मणम्) ब्राह्मण को (जिघत्सति) नष्ट करना चाहता है। (तत्) वह (राष्ट्रम्) राज्य (परा सिच्यते) बह जाता है, (यत्र) जहाँ (ब्राह्मणः) वेदवेत्ता (जीयते) दबाया जाता है ॥६॥
भावार्थभाषाः - वेदवेत्ताओं के सतानेवाले राजा का राज्य सर्वथा नष्ट हो जाता है ॥६॥
टिप्पणी: ६−(उग्रः) प्रचण्डः (राजा) शासकः (मन्यमानः) गर्वं कुर्वाणः (ब्राह्मणम्) वेदवेत्तारम् (यः) (जिघत्सति) अत्तुं नाशयितुमिच्छति (परा) पराभवेन (तत्) (सिच्यते) उद्यते (राष्ट्रम्) राज्यम् (ब्राह्मणः) (यत्र) यस्मिन् राज्ये (जीयते) अभिभूयते ॥