180 बार पढ़ा गया
क्रू॒रम॑स्या आ॒शस॑नं तृ॒ष्टं पि॑शि॒तम॑स्यते। क्षी॒रं यद॑स्याः पी॒यते॒ तद्वै पि॒तृषु॒ किल्बि॑षम् ॥
पद पाठ
क्रूरम् । अस्या: । आऽशसनम् । तृष्टम् । पिशितम् । अस्यते । क्षीरम् । यत् । अस्या: । पीयते । तत् । वै । पितृषु । किल्बिषम् ॥१९.५॥
अथर्ववेद » काण्ड:5» सूक्त:19» पर्यायः:0» मन्त्र:5
पण्डित क्षेमकरणदास त्रिवेदी
नास्तिक के तिरस्कार का उपदेश।
पदार्थान्वयभाषाः - (अस्याः) इस [वेदवाणी] का (आशसनम्) सताना (क्रूरम्) क्रूर, और (पिशितम्) ख्ण्डन (तृष्टम्) प्यास के समान दाहजनक (अस्यते) जाना जाता है। (अस्यः) इसका (यत्) जो (क्षीरम्) पीड़ा हटानेवाला कर्म (पीयते) नष्ट किया जाता है, (तत्) वह (वै) निश्चय करके (पितृषु) पालन करनेवाले शूर वीरों में (किल्बिषम्) पाप होता है ॥५॥
भावार्थभाषाः - वेदविद्या के विरुद्ध चलने से संसार में बड़े-बड़े दुःख फैलते हैं ॥५॥
टिप्पणी: ५−(क्रूरम्) कृतेश्छः क्रू च। उ० २।२१। कृती छेदने−रक्, धातोः क्रू। कुरुः कृन्ततेः क्रूरमित्यप्यस्य भवति−निरु० ६।२२। कठिनम्। निर्दयम् (अस्याः) गोः। वाण्याः (आशसनम्) शसु हिंसायाम्−ल्युट्। आहननम् (तृष्टम्) पिपासावद् दाहजनकम् (पिशितम्) पिश अवयवे−क्त। खण्डनम् (अस्यते) अस गतौ। गम्यते ज्ञायते (क्षीरम्) क्षी हिंसायाम्−क्विप्, ईर गतौ कम्पने च−अण्−इति शब्दस्तोममहानिधिः। क्षीरं क्षरतेर्घसेर्वेरो नामकरणः−निरु० २।५। पीडायाः प्रेरकं दूरीकारकं कर्म (यत्) (अस्याः) (पीयते) पीयति हिंसाकर्मा−निरु० ४।२५। हिंस्यते शत्रुणा (तत्) (वै) अवश्यम् (पितृषु) पालकेषु शूरेषु (किल्बिषम्) किलेर्बुक् च। उ० १।५१। इति किल शुक्लतायां पीडायां च−टिषच् बुक् च। किल्बिषं किल्भिदं सुकृतकर्मणो भयं कीर्तिमस्य भिनत्तीति वा−निरु० ११।२४। अपराधः पापम् ॥
