वांछित मन्त्र चुनें

अश्रू॑णि॒ कृप॑माणस्य॒ यानि॑ जी॒तस्य॑ वावृ॒तुः। तं वै ब्र॑ह्मज्य ते दे॒वा अ॒पां भा॒गम॑धारयन् ॥

मन्त्र उच्चारण
पद पाठ

अश्रूणि । कृपमाणस्य । यानि । जीतस्य । ववृतु: । तम् । वै । ब्रह्मऽज्य । ते । देवा: । अपाम् । भागम् । अधारयन् ॥१९.१३॥

अथर्ववेद » काण्ड:5» सूक्त:19» पर्यायः:0» मन्त्र:13


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

नास्तिक के तिरस्कार का उपदेश।

पदार्थान्वयभाषाः - (कृपमाणस्य) दुःख पाते हुए, (जीतस्य) हारे हुए पुरुष के (यानि) जो (अश्रूणि) आँसू (ववृतुः) बहे हैं ! (ब्रह्मज्य) हे ब्राह्मण को हानि पहुँचानेवाले ! (देवाः) महात्माओं ने (ते) तेरे लिये (तम् वै) वही (अपाम्) जल का (भागम्) भाग (अधारयन्) ठहराया है ॥१३॥
भावार्थभाषाः - ईश्वर की आज्ञा भङ्ग करनेवाला पुरुष वेदवेत्ताओं द्वारा दण्ड पाकर सदा रोता रहता है ॥१३॥
टिप्पणी: १३−(अश्रूणि) अश्र्वादयश्च−उ० ५।२९। इति अशू व्याप्तौ−डुन्, रुट् च। नेत्रजलबिन्दवः (कृपमाणस्य) कृप दौर्बल्ये-शानच्। दुर्बलीक्रियमाणस्य (यानि) (जीतस्य) अभिभूतस्य (वावृतुः) वृतु वर्तने−लिट् परस्मैपदित्वं दीर्घत्वं च छान्दसम्। ववृतिरे वर्तमाना बभूवुः (तम्) तादृशं (अपाम्) जलानाम् (भागम्) भजनीयमंशम् (अधारयन्) अस्थापयन्। अन्यद् गतम् ॥