वांछित मन्त्र चुनें

अ॑तिमा॒त्रम॑वर्धन्त॒ नोदि॑व॒ दिव॑मस्पृशन्। भृगुं॑ हिंसि॒त्वा सृञ्ज॑या वैतह॒व्याः परा॑भवन् ॥

मन्त्र उच्चारण
पद पाठ

अतिऽमात्रम् । अवर्धन्त । न । उत्ऽइव । दिवम् । अस्पृशन् । भृगुम् । हिंसित्वा । सृन्ऽजया: । वैतऽहव्या: । परा । अभवन् ॥१९.१॥

अथर्ववेद » काण्ड:5» सूक्त:19» पर्यायः:0» मन्त्र:1


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

नास्तिक के तिरस्कार का उपदेश।

पदार्थान्वयभाषाः - (सृञ्जायाः) पाये हुए शत्रुओं को जीतनेवाले, (वैतहव्याः) देवताओं का अन्न खानेवाले लोग (अतिमात्रम्) अन्यन्त (अवर्धन्त) बढ़े, (न=इति न) यही नहीं, (दिवम्) सूर्यलोक को (इव) जैसे (उत्) ऊँचे होकर (अस्पृशन्) उन्होंने छू लिया। [परन्तु] (भृगुम्) परिपक्व ज्ञानी को (हिंसित्वा) सताकर (पराभवन्) हार गये ॥१॥
भावार्थभाषाः - पाखण्डी दुरात्मा चाहे कितने ही बढ़ जावें, परन्तु धर्मात्मा उनको अन्त में हरा देते हैं ॥१॥
टिप्पणी: १−(अतिमात्रम्) अत्यर्थम् (अवर्धन्त) वृद्धिं गताः (न) इति न (उत्) ऊर्ध्वम् (इव) यथा (दिवम्) सूर्यलोकम् (अस्पृशन्) स्पृष्टवन्तः (भृगुम्) अ० २।५।३। परिपक्वज्ञानम्। ऋषिम् (हिंसित्वा) दुःखयित्वा (सृञ्जयाः) सृ गतौ−क्विप्, तुक् च। संज्ञायां भृतॄवृजि०। पा० ३।२।४६। इति सृत्+जि जये−खच्, पूर्वपदस्य मुम्। अन्त्यतकारलोपश्च। प्राप्तानां शत्रूणां जेतारः−यथा दयानन्दभाष्ये, ऋ० ४।१५।४। (वैतहव्याः) अ० ५।१८।१०। भक्षितदेवयोग्यान्नाः (पराभवन्) पराजिता अभवन् ॥