वांछित मन्त्र चुनें

श॒तापा॑ष्ठां॒ नि गि॑रति॒ तां न श॑क्नोति निः॒खिद॑न्। अन्नं॒ यो ब्र॒ह्मणां॑ म॒ल्वः स्वा॒द्वद्मीति॒ मन्य॑ते ॥

मन्त्र उच्चारण
पद पाठ

शतऽअपाष्ठम् । नि । गिरति । ताम् । न । शक्नोति । नि:ऽखिदन् । अन्नम् । य: । ब्रह्मणाम् । मल्व: । स्वादु । अद्मि । इति । मन्यते ॥१८.७॥

अथर्ववेद » काण्ड:5» सूक्त:18» पर्यायः:0» मन्त्र:7


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

वेदविद्या की रक्षा का उपदेश।

पदार्थान्वयभाषाः - वह [दुष्ट] (शतापाष्ठाम्) सैकड़ों दुर्मार्गोंवाली विपत्ति को (नि गरति) निगलता है [पाता है] और (ताम्) उसको (निःखिदन्) पचाता हुआ [पचाने को] (न) नहीं (शक्नोति) समर्थ होता है। (ब्रह्मणाम्) ब्राह्मणों के (अन्नम्) अन्न को (स्वादु) स्वादु से (अद्मि) मैं खाता हूँ, (यः) जो (मल्वः) मलिन पुरुष (इति) ऐसा (मन्यते) मानता है ॥७॥
भावार्थभाषाः - जो मनुष्य आप्त विद्वानों पर अत्याचार करता है, वह अनिवारणीय विपत्ति में ही पड़ता है ॥७॥
टिप्पणी: ७−(शतापाष्ठाम्) शत+अप+आस्थाम्। शतानि अपाष्ठा दुर्व्यवस्था यस्यां तां बहुदुर्मार्गयुक्तां विपत्तिम् (नि गरति) भक्षयति प्राप्नोति (ताम्) विपत्तिम् (न) निषेधे (शक्नोति) समर्थो भवति (निः खिदन्) खिद परिघाते−शतृ। परिघ्नन्। परिपचन् (अन्नम्) जीवनसाधनं भोग्यम् (यः) (ब्रह्मणाम्) ब्राह्मणानाम् (मल्वः) अ० ४।३६।१०। मलिनः। क्रूरः (स्वादु) कृवापाजिमिस्वदि०। उ–० १।१। इति ष्वद स्वादे−उण्। यथा तथा। भोज्यम्। मनोज्ञम् (अद्मि) भक्षयामि (इति) एवम् (मन्यते) जानाति ॥