य ए॑नं॒ हन्ति॑ मृ॒दुं मन्य॑मानो देवपी॒युर्धन॑कामो॒ न चि॒त्तात्। सं तस्येन्द्रो॒ हृद॑ये॒ऽग्निमि॑न्ध उ॒भे ए॑नं द्विष्टो॒ नभ॑सी॒ चर॑न्तम् ॥
य: । एनम् । हन्ति । मृदुम् । मन्यमान: । देवऽपीयु: । धनऽकाम:। न । चित्तात् । सम् । तस्य । इन्द्र: । हृदये । अग्निम् । इन्धे । उभे इति । एनम् । द्विष्ट: । नभसी इति । चरन्तम् ॥१८.५॥
पण्डित क्षेमकरणदास त्रिवेदी
वेदविद्या की रक्षा का उपदेश।
