वांछित मन्त्र चुनें

नैतां ते॑ दे॒वा अ॑ददु॒स्तुभ्यं॑ नृपते॒ अत्त॑वे। मा ब्रा॑ह्म॒णस्य॑ राजन्य॒ गां जि॑घत्सो अना॒द्याम् ॥

मन्त्र उच्चारण
पद पाठ

न । एताम् । ते । देवा: । अददु: । तुभ्यम् । नृऽपते । अत्तवे । मा । ब्राह्मणस्य । राजन्य । गाम् । जिघत्स:। अनाद्याम् ॥१८.१॥

अथर्ववेद » काण्ड:5» सूक्त:18» पर्यायः:0» मन्त्र:1


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

वेदविद्या की रक्षा का उपदेश।

पदार्थान्वयभाषाः - (नृपते) हे नरपति राजन् ! (ते) तेरे (देवाः) दिव्य गुणवाले पुरुषों ने (तुभ्यम्) तुझे (एताम्) इस [वाणी] को (अत्तवे) नाश करने को (न) नहीं (अददुः) दिया है। (राजन्य) हे राजन् ! (ब्राह्मणस्य) वेदवेत्ता पुरुष की (गाम्) वाणी को, (अनाद्याम्) जो नष्ट नहीं हो सकती है, (मा जिघत्सः) मत नाशकर ॥१॥
भावार्थभाषाः - राजा आप्त सत्यवादी वेदज्ञ पुरुष की वाणी में रह कर आनन्द करे ॥१॥
टिप्पणी: १−(न) निषेधे (एताम्) गाम् (ते) तव। अनुदात्तोऽयम् (देवाः) दिव्यगुणाः पुरुषाः (अददुः) दत्तवन्तः (तुभ्यम्) (नृपते) हे मनुष्यरक्षक राजन् (अत्तवे) तुमर्थे सेसेनसे०। पा० ३।४।९। इति अद भक्षणे नाशने च−तवेन्। नाशयितुम् (मा) निषेधे (ब्राह्मणस्य) वेदज्ञस्य। आप्तपुरुषस्य (राजन्य) अ० ५।१७।९। हे ऐश्वर्यवन् (गाम्) गमेर्डोः। उ० २।६७। इति गम्लृ गतौ, यद्वा, गै गाने−डो। गच्छति जानाति यया गीयते वा सा गौः। गौः, वाङ्नाम−निघ० १।११। वाणीम् (जिघत्सः) अद−सन्, घस्लृ इत्यादेशे लेटि रूपम्। नाशय (अनाद्याम्) अद-ण्यत्। केनापि नाशयितुमशक्याम् आप्तवचनत्वात् ॥