वांछित मन्त्र चुनें
218 बार पढ़ा गया

ब्र॑ह्मचा॒री च॑रति॒ वेवि॑ष॒द्विषः॒ स दे॒वानां॑ भव॒त्येक॒मङ्ग॑म्। तेन॑ जा॒यामन्व॑विन्द॒द्बृह॒स्पतिः॒ सोमे॑न नी॒तां जु॒ह्वं न दे॑वाः ॥

मन्त्र उच्चारण
पद पाठ

ब्रह्मऽचारी । चरति । वेविषत् । विष: । स: । देवानाम् । भवति । एकम् । अङ्गम् । तेन । जायाम् । अनु । अविन्दत्। बृहस्पति: । सोमेन । नीताम् । जुह्वम् । न । देवा: ॥१७.५॥

अथर्ववेद » काण्ड:5» सूक्त:17» पर्यायः:0» मन्त्र:5


पण्डित क्षेमकरणदास त्रिवेदी

ब्रह्म विद्या का उपदेश।

पदार्थान्वयभाषाः - (विषः) व्याप्तव्य कर्म में (वेविषत्) प्रवेश करता हुआ (ब्रह्मचारी) ब्रह्मचारी अर्थात् वेद के लिये अवश्य आचरण करनेवाला पुरुष (चरति) विचरता है, (सः) वह (देवानाम्) विद्वानों का (एकम्) मुख्य (अङ्गम्) अङ्ग (भवति) होता है। (देवाः) हे विद्वान् लोगो ! (तेन) उसी कारण से (बृहस्पतिः) बड़ी-बड़ी विद्याओं के रक्षक, बृहस्पति [उस ब्रह्मचारी ने] (सोमेन) परमेश्वर करके (नीताम्) लायी गयी (जुह्वम्) दानशीला (जायाम्) सुख उत्पन्न करनेहारी विद्या को (न) अव (अनु अविन्दत्) पा लिया है ॥५॥
भावार्थभाषाः - मनुष्य तपश्चरण द्वारा ब्रह्मविद्या प्राप्त करके विद्वानों में प्रतिष्ठा पाता और सुख भोगता है ॥५॥
टिप्पणी: ५−(ब्रह्मचारी) ब्रह्म+चर−आवश्यके णिनिः। ब्रह्मणे वेदाय तद्ग्रहणाय चरणशीलः पुरुषः (चरति) विचरति (वेविषत्) विष्लृ व्याप्तौ−शतृ। व्याप्नुवन् (विषः) श्रयतेः स्वाङ्गेः शिरः किच्च। उ० ४।१९४। इति विष्लृ−असुन्, स च कित्। व्याप्तव्यं कर्म (सः) (देवानाम्) विदुषाम् (भवति) (एकम्) मुख्यम् (अङ्गम्) अवयवः (तेन) कारणेन (जायाम्) म० २। सुखजनयित्रीं विद्याम् (अनु) अनुगम्य (अविन्दत्) अलभत (बृहस्पतिः) बृहतीनां वाचां पतिः। पालकः। ब्रह्मचारी (सोमेन) परमेश्वरेण (नीताम्) प्रापिताम् (जुह्वम्) जुहोतिर्दानकर्मा−निघ० १०।१२। हुवः श्लुवच्च। उ० २।६०। इति हु−क्विप्, द्वित्वं दीर्घश्च। जुहूम्। दानशीलाम् (न) सम्प्रत्यर्थे−निरु० ७।३१। (देवाः) हे विद्वांसः ॥