नास्य॒ क्षेत्रे॑ पुष्क॒रिणी॑ ना॒ण्डीकं॑ जायते॒ बिस॑म्। यस्मि॑न्रा॒ष्ट्रे नि॑रु॒ध्यते॑ ब्रह्मजा॒याचि॑त्त्या ॥
पद पाठ
न । अस्य । क्षेत्रे । पुष्करिणी । न । आण्डीकम् । जायते । बिसम् । यस्मिन् । राष्ट्रे । निऽरुध्यते । ब्रह्मऽजाया । अचित्त्या ॥१७.१६॥
अथर्ववेद » काण्ड:5» सूक्त:17» पर्यायः:0» मन्त्र:16
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
ब्रह्म विद्या का उपदेश।
पदार्थान्वयभाषाः - (अस्य) उसके (क्षेत्रे) खेत में (न) न (पुष्करिणी) पोषणवती शक्ति, और (न) न (आण्डीकम्) प्राप्ति योग्य और (बिसम्) बलदायक वस्तु (जायते) होती है (यस्मिन् राष्ट्रे) जिस राज्य में.... ॥१६॥
भावार्थभाषाः - वेदविद्या के विना न खेती विद्या और न व्यापार विद्या प्रवृत्त होती है ॥१६॥
टिप्पणी: १६−(न) (अस्य) (क्षेत्रे) शस्योत्पत्तिस्थाने (पुष्करिणी) अ० ४।३४।५। पुष पुष्टौ−करन्। पुष्करं पोषणमस्त्यत्र, पुष्कर−इनि। पोषणवती शक्तिः (न) निषेधे (आण्डीकम्) ञमन्ताड् डः। उ० १।११४। इति अम गतौ−ड। अण्ड−ईकञ्। प्राप्तियोग्यम्। (जायते) उत्पद्यते (बिसम्) अ० ४।३४।५। बलकरं वस्तु ॥
