वांछित मन्त्र चुनें
145 बार पढ़ा गया

कृ॒त्याः स॑न्तु कृत्या॒कृते॑ श॒पथः॑ शपथीय॒ते। सु॒खो रथ॑ इव वर्ततां कृ॒त्या कृ॑त्या॒कृतं॒ पुनः॑ ॥

मन्त्र उच्चारण
पद पाठ

कृत्या: । सन्तु । कृत्याऽकृते । शपथ: । शपथिऽयते । सुख: । रथ:ऽइव । वर्तताम् । कृत्या । कृत्याऽकृतम् । पुन: ॥१४.५॥

अथर्ववेद » काण्ड:5» सूक्त:14» पर्यायः:0» मन्त्र:5


पण्डित क्षेमकरणदास त्रिवेदी

शत्रु के विनाश का उपदेश।

पदार्थान्वयभाषाः - (कृत्याः) शत्रुनाशक सेनायें (कृत्याकृते) हिंसाकारी के लिये (सन्तु) होवें, और (शपथः) दुर्वचन (शपथीयते) दुर्वचन बोलनेवाले पुरुष के से आचरणवाले को [होवे], (कृत्या) शत्रुनाशक सेना (कृत्याकृतम्) हिंसाकारी पर (पुनः) अवश्य (वर्तताम्) घूमे, (इव) जैसे (सुखः) अच्छा बना हुआ (रथः) रथ [घूमता है] ॥५॥
भावार्थभाषाः - मनुष्य दोषों के त्यागने का शीघ्र उपाय करे ॥५॥
टिप्पणी: ५−(कृत्याः) शत्रुनाशिकाः सेनाः (सन्तु) भवन्तु (कृत्याकृते) हिंसाकारिणे (शपथः) दुर्वचनम् (शपथीयते) कर्तुः क्यङ् सलोपश्च। पा० ३।१।११। इति शपथिन्−क्यङ्, छान्दसं परस्मैपदम्। शपथिवदाचारणं कुर्वते (सुखः) सु+खनु विदारणे−ड। सुखं कस्मात् सु हितं खेभ्यः खं पुनः खनतेः−निरु०। ३।१३। सुख−अर्शआद्यच्। सुनिर्मितः (रथः) यानम् (इव) यथा (वर्तताम्) वर्तनेन गच्छतु (कृत्या) शत्रुनाशिका सेना (कृत्याकृतम्) हिंसाकारिणम् (पुनः) अवश्यम् ॥