अ॑सि॒तस्य॑ तैमा॒तस्य॑ ब॒भ्रोरपो॑दकस्य च। सा॑त्रासा॒हस्या॒हं म॒न्योरव॒ ज्यामि॑व॒ धन्व॑नो॒ वि मु॑ञ्चामि॒ रथाँ॑ इव ॥
पद पाठ
असितस्य । तैमातस्य । बभ्रो: । अपऽउदकस्य । च । सात्राऽसहस्य । अहम् । मन्यो: । अव । ज्याम्ऽइव । धन्वन: । वि । मुञ्चामि । रथान्ऽइव ॥१३.६॥
अथर्ववेद » काण्ड:5» सूक्त:13» पर्यायः:0» मन्त्र:6
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
दोषनिवारण के लिये उपदेश।
पदार्थान्वयभाषाः - (असितस्य) काले वर्णवाले, (तैमातस्य) ओदे स्थान में रहनेवाले, (बभ्रोः) भूरे वर्णवाले, (अपोदकस्य) जल से बाहर रहनेवाले, (च) और (सात्रासहस्य) मिलकर रहनेवाली प्रजाओं के हरानेवाले [सर्प] के (मन्योः) क्रोध के (रथान् इव) रथों को जैसे, (धन्वनः) धनुष की (ज्याम् इव) डोरी को जैसे (अहम्) मैं (अव) अलग (वि मुञ्चामि) ढीला करता हूँ ॥६॥
भावार्थभाषाः - मनुष्य सर्परूप भयंकर दुष्ट स्वभावों को ढीला कर दें, जैसे चाप की डोरी को ढीला करके रखते हैं ॥६॥
टिप्पणी: ६−(असितस्य) शुक्लविरुद्धस्य कृष्णवर्णस्य (तैमातस्य) तिम क्लेदने−क+अत सातत्यगमने−अण्। इति तिमातः। ततो भवे अण्। तिमाते क्लेदने स्थाने भवस्य सर्पस्य (बभ्रो) पिङ्गलवर्णस्य (अपोदकस्य) अपगत उदकात् अपोदकः, तस्य। अपगतजलस्य (च) (सात्रासहस्य) सत्र सम्बन्धे सन्ततौ च−घञ्। सत्रं यज्ञः, अण्, टाप्। षह अभिभवे−पचाद्यच्। सात्रासां सम्बन्धे भवानां सहस्य अभिभावकस्य सर्पस्य (अहम्) (मन्योः) क्रोधस्य (अव) पृथग्भावे (ज्याम्) अ० १।१।३। ज्या जयतेर्वा जिनातेर्वा−निरु० ९।१७। जयशीलां मौर्वीम् (इव) यथा (धन्वनः) चापस्य (विमुञ्चामि) विमोचयामि। शिथिलीकरोमि (रथान् इव) रथान् यथा ॥
