वांछित मन्त्र चुनें
163 बार पढ़ा गया

कैरा॑त॒ पृश्न॒ उप॑तृण्य॒ बभ्र॒ आ मे॑ शृणु॒तासि॑ता॒ अली॑काः। मा मे॒ सख्युः॑ स्ता॒मान॒मपि॑ ष्ठाताश्रा॒वय॑न्तो॒ नि वि॒षे र॑मध्वम् ॥

मन्त्र उच्चारण
पद पाठ

कैरात । पृश्ने । उपऽतृण्य । बभ्रो इति । आ । मे । शृणत । असिता: । अलीका: । मा । मे । सख्यु: । स्तामानम् । अपि । स्थात । आऽश्रावयन्त: । नि । विषे । रमध्वम् । १३.५॥

अथर्ववेद » काण्ड:5» सूक्त:13» पर्यायः:0» मन्त्र:5


पण्डित क्षेमकरणदास त्रिवेदी

दोषनिवारण के लिये उपदेश।

पदार्थान्वयभाषाः - (कैरात) हे किरात अर्थात् शूकरादि के फिरने के स्थान में रहनेवाले ! (पृश्ने) हे चिपटनेवाले ! (उपतृण्य) हे बागड़ [घासस्थान] में दबक जानेवाले ! (बभ्रो) हे भूरे रंगवाले ! (असिताः) हे काले वर्णवालो ! (अलीकाः) हे तुच्छ जीवो ! तुम (मे) मेरी (आ) भले प्रकार (शृणुत) सुनो। (मे) मेरे (सख्युः) मित्र के (स्तामानम्) घर के (अपि=अभि) पास (मा स्थात) मत ठहरो। (आश्रावयन्तः) अच्छे प्रकार सुनते हुए तुम (विषे) इस विष में (नि रमध्वम्) चुपचाप ठहरे रहो ॥५॥
भावार्थभाषाः - मनुष्य सर्पसमान दुःखदायी कुविचारों को नाश करके सदा शान्तस्वभाव रहें ॥५॥
टिप्पणी: ५−(कैरात) इगुपधज्ञाप्रीकिरः कः। पा० ३।१।१३५। इति कॄ−विक्षेपे−क। किराः शूकरादयोऽतन्ति यत्र। अत−अण्। किरातः शूकरादिगमनदेशः। तत्र जातः। पा० ४।३।२५। इति किरात−अण्। शूकरादिगमनदेशोत्पन्न, सर्प ! (पृश्ने) स्पृश−नि। हे स्पर्शनशील (उपतृण्य) उपतृण−यत्। उपगततृणदेशे भव (बभ्रो) डुभृञ्−कु। हे पिङ्गलवर्ण (आ) समन्तात् (मे) मम वचनम् (शृणुत) आकर्णयत (असिताः) कृष्णवर्णाः (अलीकाः) अलीकादयश्च। उ० ४।२५। इति अल वारणे−कीकन्। हे निवारणीयाः। हे घृणिता जीवाः (मा) निषेधे (मे) मम (सख्युः) मित्रस्य (स्तामानम्) सर्वधातुभ्यो मनिन्। उ० ४।१४५। इति ष्टै वेष्टने−मनिन्। वेष्टनशीलं गृहम् (अपि स्थात) माङि लुङि अडभावः। अभितिष्ठत प्राप्नुत (आश्रावयन्तः) स्वार्थे (णिच्) समन्तात् शृण्वन्तः (विषे) (नि रमध्वम्) निवर्तध्वम्। शान्ता भवत ॥