वांछित मन्त्र चुनें

द॒दिर्हि मह्यं॒ वरु॑णो दि॒वः क॒विर्वचो॑भिरु॒ग्रैर्नि रि॑णामि ते वि॒षम्। खा॒तमखा॑तमु॒त स॒क्तम॑ग्रभ॒मिरे॑व॒ धन्व॒न्नि ज॑जास ते वि॒षम् ॥

मन्त्र उच्चारण
पद पाठ

ददि: । हि । मह्यम् । वरुण: । दिव: । कवि: । वच:ऽभि: । उग्रै: । नि । रिणामि । ते । विषम् । खातम् । अखातम् । उत । सक्तम् । अग्रभम् । इराऽइव । धन्वन् । नि । जजास । ते । विषम् ॥१३.१॥

अथर्ववेद » काण्ड:5» सूक्त:13» पर्यायः:0» मन्त्र:1


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

दोषनिवारण के लिये उपदेश।

पदार्थान्वयभाषाः - (दिवः) व्यवहार की (कविः) बुद्धिवाला (वरुणः) श्रेष्ठ परमेश्वर (हि) ही (मह्यम्) मुझको (ददिः) दाता है। (उग्रैः) प्रचण्ड (वचोभिः) वचनों से [हे सर्प] (ते विषम्) तेरे विष को (नि रिणामि) मिटाये देता हूँ। (खातम्) खुदे हुए (अखातम्) बिना खुदे (उत) और (सक्तम्) चिपटे हुए [विष] को (अग्रभम्) मैंने पकड़ लिया है। (ते विषम्) तेरा विष (धन्वन्) रेतीले देश में (इरा इव) जल के समान (नि जजास) नष्ट हो गया है ॥१॥
भावार्थभाषाः - मनुष्य परमेश्वर के दिये हुए ज्ञान से अपने शारीरिक और आत्मिक दोष मिटावें, जैसे वैद्य सर्प आदि के विष को नाश करता है ॥१॥
टिप्पणी: १−(ददिः) सर्वधातुभ्य इन्। उ० ४।११८। इति दद दाने−इन्। दाता (हि) अवश्यम् (मह्यम्) मदर्थम् (वरुणः) वरणीयः परमेश्वरः (दिवः) व्यवहारस्य (कविः) मेधावी (वचोभिः) वेदवचनैः (उग्रैः) प्रचण्डैः (नि) नितराम् (रिणामि) री गतिरेषणयोः। नाशयामि (ते) त्वदीयम् (विषम्) आरोग्यनाशकं द्रव्यम् (खातम्) खन्−क्त। विदारितम् (अखातम्) अविदारितम् (उत) अपि (सक्तम्) षञ्ज सङ्गे−क्त। अभिनिविष्टम् (अग्रभम्) अहं गृहीतवान् (इरा) इण् गतौ−रक्। जलम् (इव) यथा (धन्वन्) कनिन् युवृषतक्षि०। उ० १।१५६। इति धन्व गतौ−कनिन्। धन्वनि। मरुदेशे (नि) (जजास) जसु हिंसायां ताडने च। नाशं प्राप (ते) (विषम्) ॥