आ नो॑ य॒ज्ञं भार॑ती॒ तूय॑मे॒त्विडा॑ मनु॒ष्वदि॒ह चे॒तय॑न्ती। ति॒स्रो दे॒वीर्ब॒र्हिरेदं स्यो॒नं सर॑स्वतीः॒ स्वप॑सः सदन्ताम् ॥
पद पाठ
आ । न: । यज्ञम् । भारती । तूयम् । एतु । इडा । मनुष्वत् । इह । चेतयन्ती । तिस्र: । देवी: । बर्हि: । आ । इदम् । स्योनम् । सरस्वती: । सुऽअपस: । सदन्ताम् ॥१२.८॥
अथर्ववेद » काण्ड:5» सूक्त:12» पर्यायः:0» मन्त्र:8
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
मनुष्य की उन्नति का उपदेश।
पदार्थान्वयभाषाः - (चेतयन्ती) चेतानेवाली (भारती) पोषण करनेवाली विद्या (नः) हमारे (यज्ञम्) पूजनीय, (मनुष्वत्) मनुष्यों से युक्त (तूयम्) वृद्धि करनेवाले कर्म में (इह) यहाँ पर (आ एतु) आवे, (इडा) स्तुति योग्य नीति, और (सरस्वतीः=सरस्वती) विज्ञानवाली बुद्धि [भी आवे]। (तिस्रः) तीनों (देवीः) देवियाँ (इदम्) इस (स्योनम्) सुखकारी (बर्हिः) बढ़े हुए काम में (स्वपसः) उत्तम कर्मोंवाले पुरुषों को (आ सदन्ताम्) आकर प्राप्त होवें ॥८॥
भावार्थभाषाः - पुरुषार्थी मनुष्य उत्तम विद्या, उत्तम नीति और उत्तम बुद्धि प्राप्त करके परस्पर उन्नति करें ॥८॥
टिप्पणी: ८−(नः) अस्माकम् (यज्ञम्) पूजनीयम् (भारती) भृमृदृशि०। उ० ३।११०। इति डुभृञ् धारणपोषणयोः−अतच्। प्रज्ञादिभ्यश्च। पा० ५।४।३८। इति स्वार्थे अण्, ङीप्। भारती वाङ्नाम−निघ० १।११। भारती... भरत आदित्यस्तस्य भाः−निरु० ८।१३। पोषयित्री विद्या (तूयम्) अघ्न्यादयश्च। उ० ४।११२। इति तु वृद्धौ−यक्। तविषीति बलनाम तवतेर्वृद्धिकर्मणः−निरु० ९।२५। वृद्धिकरं कर्म (आ एतु) आगच्छतु (इडा) अ० ३।१०।६। इगुपधज्ञा०। पा० ३।१।१३५। इति इल क्षेपणे, यद्वा, ईड स्तुतौ, यद्वा, ञिइन्धी दीप्तौ=क। ईड ईट्टेः स्तुतिकर्मण इन्धतेर्वा−निरु० ८।७। इडा वाङ्नाम−निघ० १।११। स्तुत्या नीतिः। (मनुष्वत्) मनुष्−मतुप्। मनुष्ययुक्तम् (इह) अस्मिन् कर्मणि (चेतयन्ती) प्रज्ञापयन्ती (तिस्रः) (देवीः) दीप्यमानाः (बर्हिः) प्रवृद्धकर्म (इदम्) (स्योनम्) सुखम् (सरस्वतीः) बहुवचनं छान्दसम्। ऋग्यजुर्वेदनिरुक्तेषु [सरस्वती] इति पाठो दृश्यते। वाङ्नाम−निघ० १।११। विज्ञानवती प्रज्ञा (स्वपसः) अपः कर्मनाम−निघ० २।१। शुभकर्मणः पुरुषान् (आसदन्ताम्) आसीदन्ताम्। आगच्छन्तु ॥
