वांछित मन्त्र चुनें

मा मा॑ वोचन्नरा॒धसं॒ जना॑सः॒ पुन॑स्ते॒ पृश्निं॑ जरितर्ददामि। स्तो॒त्रं मे॒ विश्व॒मा या॑हि॒ शची॑भिर॒न्तर्विश्वा॑सु॒ मानु॑षीषु दि॒क्षु ॥

मन्त्र उच्चारण
पद पाठ

मा । मा । वोचन् । अराधसम् । जनास: । पुन: । ते । पृश्निम् । जरित: । ददामि । स्तोत्रम् । मे । विश्वम् । आ । याहि । शचीभि: । अन्त: । विश्वासु । मानुषीषु । दिक्षु॥११.८॥

अथर्ववेद » काण्ड:5» सूक्त:11» पर्यायः:0» मन्त्र:8


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ब्रह्म विद्या का उपदेश।

पदार्थान्वयभाषाः - (जनासः) मनुष्य (मा) मुझको (अराधसम्) अदाता (मा वोचन्) न कहें। (जरितः) हे स्तुति करनेवाले पुरुष ! (पुनः) अवश्य (ते) तुझे (पृश्निम्) वेदविद्या (ददामि) देता हूँ। (विश्वासु) सब (मानुषीषु) मनुष्यसम्बन्धिनी (दिक्षु अन्तः) दिशाओं के भीतर (शचीभिः) बुद्धियों के साथ (मे) मेरे (विश्वम्) सब (स्तोत्रम्) स्तुतियोग्य कर्म की (आयाहि) प्राप्त हो ॥८॥
भावार्थभाषाः - विद्वान् पुरुष उदारचित्त होकर वेदविद्या संसार में फैलावे और सब लोग विवेकपूर्वक उसके उत्तम कर्म का अनुकरण करें ॥८॥
टिप्पणी: ८−(मा वोचन्) न कथयन्तु (मा) माम् (अराधसम्) अदातारम् (जनासाः) जनाः (पुनः) अवधारणे (ते) तुभ्यम् (पृश्निम्) म० १। वेदविद्याम् (जरितः) जरिता गरिता−निरु० १।७। हे स्तोतः (ददामि) प्रयच्छामि (स्तोत्रम्) स्तुत्यं कर्म (मे) मम (विश्वम्) सर्वम् (आयाहि) आगच्छ। प्राप्नुहि (शचीभिः) सर्वधातुभ्य इन्। उ० ४।११८। इति शच व्यक्तायां वाचि−इन्। कृदिकारादक्तिनः। वा० पा० ४।१।४५। इति ङीष्। शची=वाक्−निघ०। १।११। प्रज्ञा−३।९। प्रज्ञाभिः (अन्तः) मध्ये (मानुषीषु) अ० ४।३२।२। मनुष्−अण्, ङीष्। मनुष्यसम्बन्धिनीषु (दिक्षु) दिशासु ॥