175 बार पढ़ा गया
त्वं ह्यङ्ग व॑रुण स्वधाव॒न्विश्वा॒ वेत्थ॒ जनि॑मा सुप्रणीते। किं रज॑स ए॒ना प॒रो अ॒न्यद॑स्त्ये॒ना किं परे॒णाव॑रममुर ॥
पद पाठ
त्वम् । हि । अङ्ग । वरुण । स्वधाऽवन् । विश्वा । वेत्थ । जनिम । सुऽप्रनीते । किम् । रजस: । एना । पर: । अन्यत् । अस्ति । एना । किम् । परेण । अवरम् । अमुर॥११.५॥
अथर्ववेद » काण्ड:5» सूक्त:11» पर्यायः:0» मन्त्र:5
पण्डित क्षेमकरणदास त्रिवेदी
ब्रह्म विद्या का उपदेश।
पदार्थान्वयभाषाः - (अङ्ग) हे (स्वधावन्) आत्मधारणवाले, स्वाधीन (सुप्रणीते) हे उत्तम नीतिवाले (वरुण) श्रेष्ठ पुरुष ! (त्वम्) तू (हि) ही (विश्वा) सब (जनिमा) उत्पन्न लोकों को (वेत्थ) जानता है (किम्) क्या (एना) इस (रजसः) लोक से (परः) परे (अन्यत्) और कुछ (अस्ति) है। (अमुर) हे गतिशील ! (किम्) क्या (एना) इस (परेण) पर की अपेक्षा (अवरम्) कुछ पीछे [अधिक दूर] रहनेवाला ॥५॥
भावार्थभाषाः - मनुष्य योगी ब्रह्मज्ञानियों से वार्तालाप करने अपनी ब्रह्मविद्या बढ़ावें ॥५॥
टिप्पणी: ५−(त्वम्) (हि) निश्चयेन (अङ्ग) सम्बोधने। हे (वरुण) हे श्रेष्ठ (स्वधावन्) हे आत्मधारणयुक्त (विश्वा) सर्वाणि (वेत्थ) जानासि (जनिमा) जन्मानि। भुवनानि (सुप्रणीते) हे शोभननीतियुक्त, हे सुनायक (किम्) (रजसः) लोकात् (एना) विभक्तेरेकारः। अस्मात्। दृश्यमानात् (परः) परस्तात्। दूरदेशे (अन्यत्) भिन्नम् (अस्ति) वर्तते (एना) अनेन (किम्) (परेण) दूरदेशेन (अवरम्) पश्चाद्वर्तमानं दूरगतम् (अमुर) असेरुरन्। उ० १।४२। इति अम गतौ−उरन्। हे गतिशील ! उद्योगिन् ॥
