उ॒तामृता॑सु॒र्व्रत॑ एमि कृ॒ण्वन्नसु॑रा॒त्मा त॒न्वस्तत्सु॒मद्गुः॑। उ॒त वा॑ श॒क्रो रत्नं॒ दधा॑त्यू॒र्जया॑ वा॒ यत्सच॑ते हवि॒र्दाः ॥
पद पाठ
उत । अमृतऽअसु: । व्रत: । एमि । कृण्वन् । असु: । आत्मा । तन्व: । तत् । सुमत्ऽगु: ।उत । वा । शक्र: । रत्नम् । दधाति । ऊर्जया । वा । यत् । सचते । हवि:ऽदा: ॥१.७॥
अथर्ववेद » काण्ड:5» सूक्त:1» पर्यायः:0» मन्त्र:7
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
ब्रह्म विद्या का उपदेश।
पदार्थान्वयभाषाः - (अमृतासुः) अमर बुद्धि वा प्राणवाला, (व्रतः) उत्तम कर्मवाला मैं (कृण्वन्) कर्म करता हुआ (उत) ही (एमि) चलता हूँ, (तत्) तव (असुः) मेरी बुद्धि (आत्मा) आत्मा और (तन्वः=तनूः) देह (सुमद्गुः), उत्तम मननशील वा तृप्तिकारक विद्यायुक्त [होता है] (उत) और (वा) अवश्य (शक्रः) शक्तिमान् परमेश्वर (रत्नम्) रत्न (दधाति) देता है, (यत्) जब (हविर्दाः) भक्ति का देनेवाला पुरुष (ऊर्जया) बल के साथ (वा) निश्चय करके [उसको] (सचते) सेवता है ॥७॥
भावार्थभाषाः - पुरुषार्थी मनुष्य सब प्रकार सावधान होकर परमेश्वर की भक्ति से संसार में अनेक सुख प्राप्त करते हैं ॥७॥
टिप्पणी: ७−(उत) अपि (अमृतासुः) म० १। अनष्टबुद्धिः। अनश्वरप्राणः (व्रतः) व्रतं कर्मनाम−निघ०−२।१। अर्शआद्यच्। प्रशस्तकर्मवान् (एमि) प्राप्नोमि (कृण्वन्) कर्मणि कुर्वन् (असुः) म० १। प्राणः। प्रज्ञा (आत्मा) अ० १।१८।३। जीवः (तन्वः) एकवचनस्य बहुवचनम्। तनूः, देहः (तत्) तदा (सुमद्गुः) सु+मन ज्ञाने−क्विप्, यद्वा मद तर्पणे−क्विप्। गौः, वाङ्नाम−निघ० १।११। सुमत् प्रशस्तमनना तर्पिका वा गौर्वाग् यस्य सः (वा) अवधारणे (शक्रः) अ० २।५।४। इन्द्रः परमात्मा (रत्नम्) रमणीयं धनम् (दधाति) ददाति (ऊर्जया) अ० ४।२५।४। पराक्रमेण (यत्) यदा (सचते) सेवते (हविर्दाः) हविषो भक्तेर्दाता ॥
