वांछित मन्त्र चुनें

त्रयो॑ दा॒सा आञ्ज॑नस्य त॒क्मा ब॒लास॒ आदहिः॑। वर्षि॑ष्ठः॒ पर्व॑तानां त्रिक॒कुन्नाम॑ ते पि॒ता ॥

मन्त्र उच्चारण
पद पाठ

त्रय: । दासा: । आऽअञ्जनस्य । तक्मा । बलास: । आत् । अहि: । वर्षिष्ठ: । पर्वतानाम् । त्रिऽककुत् । नाम । ते । पिता ॥९.८॥

अथर्ववेद » काण्ड:4» सूक्त:9» पर्यायः:0» मन्त्र:8


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ब्रह्मविद्या का उपदेश।

पदार्थान्वयभाषाः - (तवमा) जीवन को कष्ट देनेवाला ज्वर, (बलासः) बल का गिरानेवाला संनिपात, कफ़ादि रोग, (आत्) और (अहिः) जीवों को मारनेवाला साँप, (त्रयः) ये तीनों (आञ्जनस्य) संसार के व्यक्त करनेवाले ब्रह्म के (दासाः) दास हैं। [हे आञ्जन, ईश्वर !] (वर्षिष्ठः) सब में वृद्ध, (पर्वतानाम्) (अवयव) वाले स्थूल लोकों का (पिता) पालनकर्ता, (त्रिककुत्) तीन प्रकार के [आध्यात्मिक, आधिभौतिक और आधिदैविक] सुखों का पहुँचानेवाला यद्वा तीनों लोकों वा कालों में गतिवाला (ते) तेरा (नाम) नाम है ॥८॥
भावार्थभाषाः - ईश्वरीय नियम तोड़नेवाले मनुष्य को परमेश्वर अपनी न्यायव्यवस्था से रोग आदि कष्ट देता है, और अपने आज्ञाकारियों को वह अत्यन्त सुख पहुँचाता है ॥८॥
टिप्पणी: ८−(त्रयः) त्रिसंख्याकाः (दासाः) दंसेष्टटनौ न आ च। उ० ५।१०। इति दसि दर्शने-ट। दंसयति पश्यतीति दासः। यद्वा। दास दाने-अच्। दासति ददाति आत्मानं स दासः। सेवकाः (आञ्जनस्य) म० ३। जगतो व्यक्तीकारकस्य ब्रह्मणः (तक्मा) अ० १।२५।१। कृच्छ्रजीवनकारी ज्वरः (बलासः) बल+असुक्षेपणे-अण्। बलमस्यति क्षिपतीति। श्लेष्मविकारः (आत्) अपि च (अहिः) अ० २।५।५। आहन्ता। सर्पः (वर्षिष्ठः) प्रियस्थिर०। पा० ६।४।१५७। इति वृद्ध-इष्ठन्। वर्षि इत्यादेशः। वृद्धतमः (पर्वतानाम्) म० १। पर्ववान् पर्वतः-निरु० १।२०। पर्ववतां लोकानाम् (त्रिककुत्) त्रि+क+कुत्। कं सुखम्-निघ० ३।६। कवते, गतिकर्मा-निघ० २।१४। कुङ् गतिशोषणयोः-क्विप्, तुक् च। अन्तर्भावितण्यर्थः, पृषोदरादित्वात् तस्य दः। आध्यात्मिकादीनि त्रीणि कानि सुखानि कावयति गमयति स त्रिककुत्। यद्वा। मृग्रोरुतिः। उ० १।९४। इति त्रि+ककि गतौ-उति, तस्य दः। त्रिषु लोकेषु कालेषु वा ककुद् गतिर्यस्य सः (नाम) संज्ञा (ते) तव (पिता) सर्वस्य पाता पालयिता वा ॥