189 बार पढ़ा गया
व्या॒घ्रो अधि॒ वैया॑घ्रे॒ वि क्र॑मस्व॒ दिशो॑ म॒हीः। विश॑स्त्वा॒ सर्वा॑ वाञ्छ॒न्त्वापो॑ दि॒व्याः पय॑स्वतीः ॥
पद पाठ
व्याघ्र: । अधि । वैयाघ्रे । वि । क्रमस्व । दिश: । मही: । दिश: । त्वा । सर्वा: । वाञ्छन्तु । आप: । दिव्या: । पयस्वती: ॥८.४॥
अथर्ववेद » काण्ड:4» सूक्त:8» पर्यायः:0» मन्त्र:4
पण्डित क्षेमकरणदास त्रिवेदी
राजतिलक यज्ञ का उपदेश।
पदार्थान्वयभाषाः - [हे राजन्] (व्याघ्रः) बाघ के समान पराक्रमी तू (वैयाघ्रे अधि) बाघ के स्वभाव में [स्थित होकर] (महीः दिशः) बड़ी दिशाओं को (वि क्रमस्व) विक्रम से जीत। (सर्वाः) सब (विशः) प्रजायें, और (दिव्याः) उत्तम (पयस्वतीः=०-त्यः) सारवाली (आपः) जलधाराएँ (त्वा) तुझको (वाञ्छन्तु) चाहें ॥४॥
भावार्थभाषाः - राजा व्याघ्र के समान पराक्रमी और जल के समान उपकारी होवे, सब प्रजागण उससे प्रीति करें और राज्य में अनावृष्टि आदि न हो ॥४॥
टिप्पणी: ४−(व्याघ्र) अ० ४।३।१। व्याघ्रो व्याघ्राणाद् व्यादाय हन्तीति वा। निरु० ३।१८। लुप्तोपममेतत्। व्याघ्रवद् दुष्प्रधर्षः (अधि) उपरि उपविष्टः सन् (वैयाघ्रे) तस्येदम्। पा० ४।३।१२०। इति व्याघ्र-अण्। न य्वाभ्यां पदान्ताभ्याम्०। पा० ७।३।३। इति यकारात् पूर्वम् ऐच्। व्याघ्रस्यायं स्वभावस्तस्मिन् (विक्रमस्व) वेः पादविहरणे। पा० १।३।४१। इति क्रमेरात्मनेपदम्। विक्रमेण शौर्येण व्याप्नुहि। विजयस्व (दिशः) प्राच्याद्याः (महीः) महतीः (विशः) प्रजाः (त्वा) त्वां राजानम् (सर्वाः) (वाञ्छन्तु) वाछि इच्छायाम्। स्वामित्वेन इच्छन्तु (आपः) जलानि (दिव्याः) दिवि भवः-यत्। उत्तमगुणयुक्ताः (पयस्वतीः) पयस्वत्यः। सारवत्यः ॥
