भू॒तो भू॒तेषु॒ पय॒ आ द॑धाति॒ स भू॒ताना॒मधि॑पतिर्बभूव। तस्य॑ मृ॒त्युश्च॑रति राज॒सूयं॒ स राजा॒ रा॒ज्यमनु॑ मन्यतामि॒दम् ॥
पद पाठ
भूत: । भूतेषु । पय: । आ । दधाति । स: । भूतानाम् । अधिऽपति: । बभूव । तस्य । मृत्यु: । चरति । राजऽसूयम् । स: । राजा । राज्यम् । अनु । मन्यताम् । इदम् ॥८.१॥
अथर्ववेद » काण्ड:4» सूक्त:8» पर्यायः:0» मन्त्र:1
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
राजतिलक यज्ञ का उपदेश।
पदार्थान्वयभाषाः - (भूतः) विभूति वा ऐश्वर्यवाला पुरुष (भूतेषु) सब स्थावर जंगम पदार्थों में (पयः) दूध, अन्न जल आदि (आ) अच्छे प्रकार (दधाति) धारण करता है, (सः) वही (भूतानाम्) प्राणी और अप्राणियों का (अधिपतिः) अधिष्ठाता (बभूव) हुआ है। (मृत्युः) मृत्यु [मारणसामर्थ्य] (तस्य) उसके (राजसूयम्) राजतिलक यज्ञ में (चरति) अनुचर होता है। (सः राजा) वह राजा (इदम् राज्यम्) इस राज्य को (अनु मन्यताम्) अङ्गीकार करे ॥१॥
भावार्थभाषाः - जिस प्रतापी पुरुष को विद्वान् पुरुषों ने राजा बनाया है, वह अपनी बुद्धि, नीति और वीरता से प्रजा के प्राण और धन की रक्षा करता है और वही शिष्टों का पालन करके मृत्यु से बचाता और दुष्टों को दण्ड देकर मारता है ॥१॥
टिप्पणी: १−(भूतः) भू सत्तायां प्राप्तौ च, यद्वा, शुद्धिचिन्तनमिश्रणेषु-क्त। भवति विद्यते भूयते प्राप्यते वा भूतः। प्राणी। भूतिमान् ऐश्वर्यवान् राजा (भूतेषु) सत्तां प्राप्तेषु स्थावरजङ्गमद्रव्येषु (पयः) रपेरत एच्च। ४।१९०। इति पय गतौ, पीङ् वा पा पाने-असुन्। पयः पिबतेर्वा प्यायतेर्वा-निरु० २।५। पयः, रात्रिनाम-निघ० १।७। उदकनाम-निघ० १।१२। अन्ननाम-निघ० २।७। दुग्धान्नजलादिपदार्थजातम् (आ) सम्यक् (दधाति) स्थापयति (सः) राजा (भूतानाम्) प्राणिनाम् (अधिपतिः) अधिष्ठाता। स्वामी। (बभूव) (तस्य) राज्ञः (मृत्युः) भुजिमृङ्भ्यां युक्त्युकौ। उ० ३।२१। इति मृङ् प्राणत्यागे-त्युक्। अन्तर्भावितण्यर्थः। मृत्युर्मारयतीति सतो मृतं च्यावयतीति वा शतबलाक्षो मौद्गल्यः-निरु० ११।६। मारणसामर्थ्यम्, दुष्टनिग्रहेण शिष्टपरिपालनेन च (चरति) अनुचरति। सेवते (राजसूयम्) राजसूयसूर्य०। पा० ३।१।११४। इति राजन्+षुञ् अभिषवे-क्यप्। अभिषवः स्नपनं पीडनं स्नानं सुरासंधानं च। राजा सूयते अभिषिच्यते यत्र। राजाभिषेकयज्ञम् (सः) कृताभिषेकः (राजा) ऐश्वर्यशाली। प्रतापवान् (राज्यम्) पत्यन्तपुरोहितादिभ्यो यक्। पा० ५।१।१२८। इति राजन्-यक्। राज्ञः कर्म प्रजारक्षणादिकम् (अनुमन्यताम्) अनुजानातु। अङ्गीकरोतु (इदम्) प्रत्यक्षम् ॥
