204 बार पढ़ा गया
अना॑प्ता॒ ये वः॑ प्रथ॒मा यानि॒ कर्मा॑णि चक्रि॒रे। वी॒रान्नो॒ अत्र॒ मा द॑भ॒न्तद्व॑ ए॒तत्पु॒रो द॑धे ॥
पद पाठ
अनाप्ता: । ये । व: । प्रथमा: । यानि । कर्माणि । चक्रिरे । वीरान् । न: । अत्र । मा । दभन् । तत् । व: । एतत् । पुर: । दधे ॥७.७॥
अथर्ववेद » काण्ड:4» सूक्त:7» पर्यायः:0» मन्त्र:7
पण्डित क्षेमकरणदास त्रिवेदी
विष नाश करने का उपदेश।
पदार्थान्वयभाषाः - (ये) जिन (प्रथमाः) प्रधान (अनाप्ताः) अत्यन्त यथार्थज्ञानी पुरुषों ने (वः) तुम्हारे लिये (यानि) पूजनीय (कर्माणि) कर्म (चक्रिरे) किये हैं, वे (नः) हम (वीरान्) वीरों को (अत्र) यहाँ पर (मा दभन्) न मारें (तत्) सो (एतत्) इस कर्म को (वः) तुम्हारे (पुरः) आगे (दधे) मैं धरता हूँ ॥७॥
भावार्थभाषाः - मनुष्य प्रयत्न करें कि जगत् हितकारी महात्मा लोग आनन्द प्राप्त करके सबकी यथावत् रक्षा करते रहें ॥७॥ यह मन्त्र अ० ५।६।२। में भी है ॥
टिप्पणी: ७−(अनाप्ताः) आप्लृ व्याप्तौ-क्त। आप्ता यथार्थज्ञातारः। न सन्ति आप्ता येभ्यस्ते अनाप्ताः, अनुत्तमाः। अतिशयेन आप्ताः (ये) पुरुषाः (वः) युष्मभ्यम् (प्रथमाः) प्रधानाः (यानि) यज देवपूजासङ्गतिकरणदानेषु-ड। यजनीयानि। पूज्यानि (कर्माणि) कर्तव्यानि। आचरणानि (चक्रिरे) कृतवन्तः (वीरान्) शूरान् (नः) अस्मान् (अत्र) अस्मिन् संसारे विषनिवारणकर्मणि वा (मा दभन्) दम्भु दम्भे=कपटे। मा हिंसन्तु ते शत्रवः (तत्) तस्मात् (वः) युष्माकम् (एतत्) क्रियमाणं कर्म (पुरः) पुरस्तात् (दधे) धारयामि ॥
