वांछित मन्त्र चुनें

क॑र॒म्भं कृ॒त्वा ति॒र्यं॑ पीबस्पा॒कमु॑दार॒थिम्। क्षु॒धा किल॑ त्वा दुष्टनो जक्षि॒वान्त्स न रू॑रुपः ॥

मन्त्र उच्चारण
पद पाठ

करम्भम् । कृत्वा । तिर्यम् । पीब:ऽपाकम् । उदारथिम् । क्षुधा । किल । त्वा । दुस्तनो इति दु:ऽतनो । जक्षिऽवान् । स: । न । रूरुप: ॥७.३॥

अथर्ववेद » काण्ड:4» सूक्त:7» पर्यायः:0» मन्त्र:3


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

विष नाश करने का उपदेश।

पदार्थान्वयभाषाः - (दुष्टनो) हे शरीर के दुःखदायक [विष !] (किल) तिरस्कार के साथ (त्वा) तेरे लिये [तेरे हटाने के लिये] (तिर्यम्) रोग जीतने में समर्थ, (पीबस्पाकम्) मुटाई वा चर्बी रोग पचानेवाले और (उदारथिम्) जाठर अग्नि बढ़ानेवाले (करम्भम्) जलसेचन [वा दही सत्तुओं] को (कृत्वा) बनाकर (क्षुधा) भूख के कारण (जक्षिवान्=यः जक्षिवान् तम्) जिसने खा लिया, उसको (सः=स त्वम्) उस तूने (न) नहीं (रूरुपः) मूर्छित किया है ॥३॥
भावार्थभाषाः - जलसेचन और सत्तुओं के सेवन से विषैले रोगों का नाश होता है ॥३॥
टिप्पणी: ३−(करम्भम्) म० २। जलसेचनम्। दधिसक्तून् (कृत्वा) विधाय (तिर्यम्) सर्वधातुभ्योऽसुन्। उ० ४।१८९। इति तॄ प्लवनतरणयोः-असुन्। गुणविषये इर्। तरतीति तिरः। तत्र साधुः। पा० ४।४।९८। इति यत्। अव्ययानां च०। वा० पा० ६।४।१४४। इति टिलोपः। तरणे रोगजये समर्थम्। रोगतिरस्कारे कुशलम् (पीवस्पाकम्) सर्वधातुभ्योऽसुन्। उ० ४।१८९। इति पीव स्थौल्ये-असुन्। पचे करणे-घञ्। पीवः स्थौल्यं मेदो वा रोगविशेषः पच्यते येन तम् (उदारथिम्) उद्यर्त्तेश्चित्। उ० ४।८८। इति उत्+ऋ गतौ-घथिन्। छान्दसो दीर्घः। उदरथिम्। उद्गमयितारम् जाठराग्नेरुद्दीपयितारम् (क्षुधा) बुभुक्षया (किल) तिरस्कारेण। निश्चयेन (त्वा) सुपां सुपो भवन्ति। वा० पा० ७।१।३९। इति चतुर्थ्यर्थे द्वितीया, त्वदर्थम्। तव निवारणायेत्यर्थः (दुष्टनो) दुर्-तनो। हे शरीरदूषक ! (जक्षिवान्) अदेर्लिटः लिट्यन्यतरस्याम्। पा० २।४।४०। इति घस्लृ आदेशः। वस्वेकाजाद्घसाम्। पा० ७।२।६७। इति इटि कृतं उपधालोपे स्थानिवद्भावाद् द्विर्वचनादि। भक्षितवान् यः पुरुषः, तम् इति शेषः (सः) स त्वम् (न) नहि (रूरुपः) रुप विमोहने। ण्यन्ताल् लुङि चङि रूपम् अडभावः। अरूरुपः। अमूमुहः। मूर्छितम् अकार्षीः ॥