वांछित मन्त्र चुनें

वध्र॑यस्ते खनि॒तारो॒ वध्रि॒स्त्वम॑स्योषधे। वध्रिः॒ स पर्व॑तो गि॒रिर्यतो॑ जा॒तमि॒दं वि॒षम् ॥

मन्त्र उच्चारण
पद पाठ

वध्रय: । ते । खनितार: । वध्रि: । त्वम् । असि । ओषधे । वध्रि: । स: । पर्वत: । गिरि: । यत: । जातम् । इदम् । विषम् ॥६.८॥

अथर्ववेद » काण्ड:4» सूक्त:6» पर्यायः:0» मन्त्र:8


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

विष दूर करने के लिये उपदेश।

पदार्थान्वयभाषाः - (ओषधे) हे दाह [जलन] के धारण करनेवाले विष ! (ते) तेरे (खनितारः) खोदनेवाले (वध्रयः) असमर्थ [हो जावें] और (त्वम्) तू भी (वध्रिः) निर्वीर्य (असि) है। (सः) वह (पर्वतः) अवयववाला (गिरिः) पहाड़ (वध्रिः) असमर्थ [हो जावे], (यतः) जिससे (इदम् विषम्) यह विष (जातम्) उत्पन्न हुआ है ॥८॥
भावार्थभाषाः - राजा विषव्यापारियों और विषस्थानों को नीति विधान से अपने वश में रक्खे ॥८॥
टिप्पणी: ८−(वध्रयः) म० ७। असमर्थाः (ते) तव (खनितारः) खननकर्तारः (वध्रिः) निर्वीर्या। निर्वीर्यः। (त्वम् असि) (ओषधे) अ० १।२३।१। उष दाहे-घञ्+डुधाञ् धारणपोषणयोः-कि। हे दाहधारक विष (सः) (पर्वतः) अ० १।१२।३। पर्व पूरणे अतच्। पर्वति पूरयति भूमिम्। यद्वा। पर्वमरुद्भ्यां तन् वक्तव्यः। वा० पा० ५।२।१२२। इति पर्वन्-तन् मत्वर्थे। पर्ववान्। अवयवयुक्तः (गिरिः) अ० २।२५।४। शैलः (यतः) यस्माद् गिरेः (जातम्) उत्पन्नम् (इदम्, विषम्) ॥