196 बार पढ़ा गया
यस्त॒ आस्य॒त्पञ्चा॑ङ्गुरिर्व॒क्राच्चि॒दधि॒ धन्व॑नः। अ॑पस्क॒म्भस्य॑ श॒ल्यान्निर॑वोचम॒हं वि॒षम् ॥
पद पाठ
य: । ते । आस्यत् । पञ्चऽअङ्गुरि: । वक्रात् । चित् । अधि । धन्वन: । अपऽस्कम्भस्य । शल्यात् । नि: । अवोचम् । अहम् । विषम् ॥६.४॥
अथर्ववेद » काण्ड:4» सूक्त:6» पर्यायः:0» मन्त्र:4
पण्डित क्षेमकरणदास त्रिवेदी
विष दूर करने के लिये उपदेश।
पदार्थान्वयभाषाः - (यः) जिस किसी पुरुष ने (पञ्चाङ्गरिः) पाँचों अंगुली जमाकर (वक्रात्) टेढ़े (चित्) ही (धन्वनः अधि) धनुष पर से (अपस्कम्भस्य) तीर के बन्धन की (शल्यात्) अणि व पैनी कील से (ते) तेरे लिये [विष] (आस्यत्) चलाया है, (अहम्) मैंने (विषम्) उस विष को (निः) निकालकर (अवोचम्) वचन बोला है ॥४॥
भावार्थभाषाः - यदि शत्रु अपने छल बल से दृढ़ हाथ से छोड़े हुए विष में मुझे तीरसे किसी वीर मनुष्य के शरीर में विष प्रवेश करदे, तो चतुर वैद्य उसकी चिकित्सा करके यश प्राप्त करे ॥४॥
टिप्पणी: ४−(यः) कश्चित् पुरुषः (ते) तुभ्यम् (आस्यत्) असु क्षेपणे लङ्। प्राक्षिपत् (पञ्चाङ्गरिः) वालमूललघ्वसुरालमङ्गुलीनां वा रो लमापद्यत इति वक्तव्यम्। वा० पा० ८।२।१८। इति लस्य रत्वम्। बाणा रोपणे पञ्च अङ्गुरयः अङ्गुलयो यस्य स-तथोक्तः। दृढहस्तः सन् (वक्रात्) स्फायितञ्चिवञ्चि०। उ० २।१३। इति वञ्चु प्रलम्भने-रक्। कुटिलात्। क्रूरात् (चित्) अपि (अधि) उपरिभावे (धन्वनः) अ० १।३।९। चापात् (अपस्कम्भस्य) स्कभि गतिप्रतिबन्धे-घञ्। शरबन्धनात् (शल्यात्) अ० २।३०।३। शल गतौ-य। बाणाग्रभागात् (निः) ओषधिबलेन निःसार्य (अवोचम्) उक्तवानस्मि (विषम्) हलाहलम् ॥
