य उ॑त्तर॒तो जुह्व॑ति जातवेद॒ उदी॑च्या दि॒शोऽभि॒दास॑न्त्य॒स्मान्। सोम॑मृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान्प्रतिस॒रेण॑ हन्मि ॥
ये । उत्तरत: । जुह्वति । जातऽवेद: । उदीच्या: । दिश: । अभिऽदासन्ति । अस्मान् । सोमम् । ऋत्वा । ते । पराञ्च: । व्यथन्ताम् । प्रत्यक् । एनान् । प्रतिऽसरेण । हन्मि ॥४०.४॥
पण्डित क्षेमकरणदास त्रिवेदी
शत्रु के नाश करने का उपदेश।
