ये पु॒रस्ता॒ज्जुह्व॑ति जातवेदः॒ प्राच्या॑ दि॒शोऽभि॒दास॑न्त्य॒स्मान्। अ॒ग्निमृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान्प्रतिस॒रेण॑ हन्मि ॥
ये । पुरस्तात् । जुह्वति । जातऽवेद: । प्राच्या: । दिश: । अभिऽदासन्ति । अस्मान् । अग्निम् । ऋत्वा । ते । पराञ्च: । व्यथन्ताम् । प्रत्यक् । एनान् । प्रतिऽसरेण । हन्मि ॥४०.१॥
पण्डित क्षेमकरणदास त्रिवेदी
शत्रु के नाश करने का उपदेश।
