वांछित मन्त्र चुनें
228 बार पढ़ा गया

अ॒पां रसः॑ प्रथम॒जोऽथो॒ वन॒स्पती॑नाम्। उ॒त सोम॑स्य॒ भ्राता॑स्यु॒तार्शम॑सि॒ वृष्ण्य॑म् ॥

मन्त्र उच्चारण
पद पाठ

अपाम् । रस: । प्रथमऽज: । अथो इति । वनस्पतीनाम् । उत । सोमस्य । भ्राता । असि । उत । आर्शम् । असि । वृष्ण्यम् ॥४.५॥

अथर्ववेद » काण्ड:4» सूक्त:4» पर्यायः:0» मन्त्र:5


पण्डित क्षेमकरणदास त्रिवेदी

मनुष्य बल को बढ़ावे।

पदार्थान्वयभाषाः - [हे औषध !] तू (अपाम्) व्यापनशील जलों का (अथो) और भी (वनस्पतीनाम्) अपने सेवा करनेवालों के पालक वृक्षों का (प्रथमजः) प्रथम उत्पन्न होनेवाला (रसः) रस, (उत) और (सोमस्य) अमृत वा ऐश्वर्य का (भ्राता) प्रकाशक वा धारक और पोषक (असि) है, (उत) और (आर्शम्) शूरों का हितकारक (वृष्ण्यम्) बल (असि) है ॥५॥
भावार्थभाषाः - उत्तम जल और उत्तम वृक्षों और अन्न आदिकों के यथावत् सेवन से मनुष्य ऐश्वर्यवान् और बलवान् होते हैं ॥५॥
टिप्पणी: ५−(अपाम्) व्यापनशीलानां जलानाम् (रसः) सारः (प्रथमजः) प्रथमं जातः प्रादुर्भूतः (अथो) अपि च (वनस्पतीनाम्) अ० २।१२।३। वनानां सेवकानां पतीनां पालकानां वृक्षाणाम् (उत) अपि (सोमस्य) अमृतस्य। ऐश्वर्यस्य (भ्राता) अ० १।१४।१। भ्राजृ दीप्तौ-तृन्। प्रकाशकः। अथवा। डुभृञ् धारणपोषणयोः-तृन्। अन्योऽन्यभरणशीलः। भ्राता भरतेर्हरतिकर्मणो हरते भागं भर्त्तव्यो भवतीति वा-निरु० ४।२६। भ्रातृसमानगुणः (असि) भवसि (आर्शम्) इगुपधज्ञा०। पा–० ३।१।१३५। इति ऋश हिंसायाम्-कु, सौत्रौ धातुः। ऋशति शूर्यते हिनस्ति शत्रूनिति ऋशः शूरः। तस्मै हितम्। पा० ५।१।५। इति अण्। ऋशाय शूराय हितम् (वृष्ण्यम्) म० ४। बलम् ॥