सूर्य॑स्य र॒श्मीननु॒ याः स॒ञ्चर॑न्ति॒ मरी॑चीर्वा॒ या अ॑नुस॒ञ्चर॑न्ति। यासा॑मृष॒भो दू॑र॒तो वा॒जिनी॑वान्त्स॒द्यः सर्वा॑न्लो॒कान्प॒र्येति॒ रक्ष॑न्। स न॒ ऐतु॒ होम॑मि॒मं जु॑षाणो॑३ऽन्तरि॑क्षेण स॒ह वा॒जिनी॑वान् ॥
सूर्यस्य । रश्मीन् । अनु । या: । सम्ऽचरन्ति । मरीची: । वा । या: । अनुऽसंचरन्ति । यासाम् । ऋषभ: । दूरत: । वाजिनीऽवान् । सद्य: । सर्वान् । लोकान् । परिऽएति । रक्षन् । स: । न: । आ । एतु । होमम् । इमम् । जुषाण: । अन्तरिक्षेण । सह । वाजिनीऽवान् ॥३८.५॥
पण्डित क्षेमकरणदास त्रिवेदी
परमेश्वर के गुणों का उपदेश।
